पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३६
सटीकलोचनोपेतध्वन्यालोके


हरिविजये । यथा च मदीय एवार्जुनचरिते महाकाव्ये । कविना काव्य. मुपनिबध्नता सर्वात्मना रसपरतन्त्रेण भवितव्यम् । तत्रेतिवृत्ते यदि रसा- ननुगुणां स्थितिं पश्येत्तदेमां मङ्क्त्वापि स्वतन्त्रतया रसानुगुणं कथान्त. रमुत्पादयेत् । न हि कवेरितिवृत्तमात्रनिर्वहणेन किञ्चित्पयोजनम्, इति. हासादेव तत्सिद्धेः।

 रसादिव्यञ्जकत्वे प्रबन्धस्य चेदमन्यन्मुख्यं निबन्धनं, यत्सन्धी- नां मुखपत्तिमुखगर्भावमर्शनिर्वहणाख्यानां तदङ्गानां चोपक्षेपादीनां घटन


लोचनम्

योदि वर्णितमितिहासाप्रसिद्धम् । एतदेव युक्तमित्याह-कविनेति । सन्धीना- मिति । इह प्रभुसम्मितेभ्यः श्रुतिस्मृतिप्रभृतिभ्यः कर्तव्यमिदमित्याज्ञामात्रपरमा- र्थेभ्यः शास्त्रेभ्यो ये न व्युत्पन्नाः, न चाप्यस्येदं वृत्तममुष्मात्कर्मण इत्येवं युक्तियुक्तक- र्मफलसम्बन्धप्रकटन कारिभ्यो मित्रसम्मितेभ्य इतिहासशास्त्रेभ्यो लब्धव्युत्पत्तयः, अथ चावश्यं व्युत्पाद्याः प्रजार्थसम्पादनयोग्यताक्रान्ता राजपुत्रप्रायास्तेषां हृदयानु- प्रवेशमुखेन चतुर्वर्गोपायव्युत्पत्तिराधेया। हृदयानुप्रवेशश्च रसास्वादमय एव । स च रसश्चतुर्वर्गोपायव्युत्पत्तिनान्तरीयकविभावादिसंयोगप्रसादोपनत इत्येवं रसोचितवि- भावाद्युपनिबन्धे रसास्वादवैवश्यमेव स्वरसभाविन्यां व्युत्पत्तौ प्रयोजकमिति प्रीतिरेव व्युत्पत्तेः प्रयोजिका। प्रीत्यात्मा च रसस्तदेव नाटयं नाटयमेव वेद इत्यस्मदुपा- ध्यायः । न चैते प्रीतिव्युत्पत्ती भिन्नरूपे एव, द्वयोरप्येकविषयत्वात् । विभावाद्यौचि-

बालप्रिया

रसानुगुण्यरहिताम् । 'उत्प्रेक्ष्य' आलोच्य । 'अन्तरा' मध्ये । 'अभीष्टेति । अभी- ष्टस्य रसस्य उचितायाः कथाया उन्नयः घटनम् । उक्तमेवार्थ स्फुटं विवृणोति-'कविने. त्यादि । 'प्रबन्धमिति 'काव्यमिति च पाठः । लोचने 'सन्धीनामित्यादिग्रन्थार्थ विवृ. णोति-इह प्रभुसम्मितेभ्य इत्यादि । कर्तव्यमिदमिति उपलक्षणमेतदिदं न कर्तव्य मित्यस्य । शास्त्रेभ्य इति हेतौ पञ्चमी । न चापीति । लब्धव्युत्पत्तय इत्यनेनास्य सम्बन्धः । अस्येति नायकविशेषस्य निर्देशः । इदं वृत्तमिति । एतत्फलं जातमि. त्यर्थः । शास्त्रीति । शास्त्रमितिहासात्मकानि शास्त्राणि इतिहासशास्त्राणि तेभ्यः। अथ चावश्यं व्युत्पाद्या इत्यत्र हेतुमाह-प्रजार्थति । प्रजानामर्थसम्पादने परिपालने या योग्यता राजकुलप्रसूतत्वादिरूपा तया आक्रान्ता आश्रिता इत्यर्थः । चतुरिति । चतुर्वर्गोपायव्युत्पत्तिः नान्तरीयकमानुषङ्गिकफलं यस्य तथाविधो यो विभावादिसंयोगः तत्प्रसादोपनतः तेनोत्पादित इत्यर्थः । इत्येवमिति । उक्तप्रकारेणेत्यर्थः । प्रीति- रेवेति । रसास्वादानन्द एवेत्यर्थः । भिन्निरूपे इति । विभिन्न विषयके इत्यर्थः ।