पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३४
सटीकलोचनोपेतध्वन्यालोके


 इयत्तूच्यते-भरतादिविरचितां स्थितिं चानुवर्तमानेन महाकविप्रबन्धा. श्व पर्यालोचयता स्वप्रतिमां चानुसरता कविनावहितचेतसा भूत्वा विभावा द्यौचित्यभ्रंशपरित्यागे परः प्रयत्नो विधेयः । औचित्यवतः कथाशरीरस्य वृत्तस्योत्प्रेक्षितस्य वा ग्रहो व्यञ्जक इत्यनेनैतत्प्रतिपादयति-यदितिहा. सादिषु कथासु रसवतीषु विविधासु सतीष्वपि यत्तत्र विभावाद्यौचित्य वत्कथाशरीरं तदेव ग्राह्यं नेतरत् । वृत्तादपि च कथाशरीरादुत्प्रेक्षिते वि. शेषतः प्रयत्नवता भवितव्यम् । तत्र ह्यनवधानात्स्खलतः कवेरव्युत्पत्ति सम्भावना महती भवति ।

 परिकर श्लोकश्चात्र-

कथाशरीरमुत्पाद्यवस्तु कार्यं तथातथा ।
यथा रसमयं सर्वमेव तत्प्रतिभासते ॥


लोचनम्

 इयत्त्विति । लक्षणज्ञत्वं लक्ष्यपरिशीलनमदृष्टप्रसादोदितस्वप्रतिभाशालित्वं चा. नुसतव्यमिति संक्षेपः । रसवतीष्वित्यनादरे सप्तमी । रसवत्त्वं चाविवेचकजनाभिमा. नाभिप्रायेण मन्तव्यम् । विभावाद्यौचित्येन हि विना का रसवत्ता। कवेरिति ।

बालप्रिया

"स्त्रीनीचप्रकृतिष्वेष शोको व्यसनसम्भवः ।
धैर्येणोत्तममध्यानां नीचानां रुदितेन च"॥

 इति भावाध्याये पाठः । अत्राभिनेय इत्यस्यानुषः । 'भरतादिविरचितां स्थिति- ञ्चानुवर्तमानेने त्यादितृतीयान्तपदत्रयलब्धमर्थमाह-लक्षणज्ञत्वमित्यादि । अदु ष्टेति । अदृष्टं सुकृतं प्रमादो देवतादिप्रसादः ताभ्यामुदिता या स्वप्रतिभा तच्छालित्व. मित्यर्थः । अनादरे सप्तमीति । इतिहासादिषु विविधासु रसवतीषु कथासु सती- ष्वपि ताः कथा अनादृत्य तत्र तासाम्मध्ये यत्कथाशरीरमौचित्यवत्तदेव कविना ग्राह्यं, नेतरद्विभावाद्यौचित्यशून्यं कथाशरीरं रसवदपि न ग्राह्यमिति वृत्त्यर्थ इति भावः । ननु विभावाद्यौचित्याभावे कथं रसवत्वमित्यत आह-रसवत्वञ्चेति । अविवेच केत्यादि । अविवेचकजनानां योऽभिमानः रसवत्वाभिमानः तदभिप्रायेण ज्ञातव्य- मित्यर्थः । अत्र हेतुमाह-विभावाद्यौचित्येनेत्यादि । महती अव्युत्पत्तिसम्भा. वना भवतीत्युक्तं विवृणोति-न हीत्यादि । तत्रेति । स्वयमुत्प्रेक्षिते कथाशरीर इत्य. र्थः । जात्युत्तरमिति । असमीचीनमुत्तरमित्यर्थः । तत्र इति जात्युत्तरमपि न सम्भ- वतीति सम्बन्धः । सन्तीत्यादिकं विवृणोति-सिद्ध इत्यादि । आस्वादेति । आस्वाद