ननु यद्युत्साहादिभाववर्णने कथञ्चिदिव्यमानुष्याद्यौचित्यपरीक्षा क्रि.
यते तत्क्रियताम् , रत्यादौ तु किं तया प्रयोजनम् ? रतिर्हिं भारतवर्षोंचिते.
नैव व्यवहारेण दिव्यानामपि वर्णनीयेति स्थितिः । नैवम् । तत्रौचित्या-
तिक्रमेण सुतरां दोषः । तथा ह्यधमप्रकृत्यौचित्येनोचमप्रकृतेः शृङ्गारोप-
निबन्धने का भवेन्नोपहास्यता । त्रिविधं प्रकृत्यौचित्यं भारते वर्षेऽप्यस्ति
शृङ्गारविषयम् । यत्तु दिव्यमौचित्यं तत्तत्रानुपकारकमेवेति चेत्-न वयं
दिव्यमौचित्यं शृङ्गारविषयमन्यत्किञ्चिद्ब्रूमः । किं तर्हि ! भारतवर्षविषये
यथोत्तमनायकेषु राजादिषु शृङ्गारोपनिबन्धस्तथा दिव्याश्रयोऽपि शोभते ।
न च राजादिषु प्रसिद्धग्राम्यशृङ्गारोपनिबन्धनं प्रसिद्ध नाटकादौ, तथैव
देवेषु तत्परिहर्तव्यम् । नाटकादेरभिनेयार्थत्वादभिनयस्य च सम्भोगशृङ्गार-
विषयस्यासभ्यत्वात्तत्र परिहार इति चेत्-न; यद्यमिनयस्यैवंविषय-
स्यासभ्यता तत्काव्यस्यैवंविषयस्य सा केन निवार्यते । तस्मादभिनेयार्थेऽ
नमिनेयार्थे वा काव्ये यदुत्तमप्रकृते राजादेरुत्तमप्रकृतिभिर्नायिकाभिः सह
ग्राम्यसम्भोगवर्णनं तत्पित्रोः सम्भोगवर्णनमिव सुतरामसभ्यम् । तथैवो.
त्तमदेवतादिविषयम् ।
लोचनम्
निरूपितं मुनिनेति न कर्तव्यमिति तात्पर्यम् । आदिशब्दः प्रकारे, हिमादेः प्रसिद्ध- देवचरितस्य सङ्ग्रहाऽर्थः ।
बालप्रिया.
उत्पाद्यवस्तु सत् न निरूपितमिति सम्बन्धः । इतीति हेतौ । न कर्तव्यमिति । कविना नाटकादि उत्पाद्यवस्तु सन्न निबद्धव्यमित्यर्थः । 'नाटकादी'त्यत्रादिशब्दं विवृणोति-प्रकार इत्यादि । प्रकारे सादृश्ये, तच्च प्रख्यातवस्तुत्वेन बोध्यम् । 'डिमा- देरित्यादिपदेन व्यायोगो प्रायः । "प्रख्यातवस्तुविषयः प्रख्यातोदात्तनायकश्चेत्या- दि डिमलक्षणम् । व्यायोगस्तु विधिज्ञैः कर्यः प्रख्यातनायकशरीर इत्यादिव्यायोगल- क्षणञ्च नाटयशास्त्रादायुक्तम्
नाटकादीत्यत्र नाटकमादिः यस्येति व्युत्पत्त्या नाटकादिपदेनातद्गुणसंविज्ञानबहु- व्रीहिणा प्रकरणं विवक्षितमतो न यथाश्रुतार्थानुपपत्तिरिति कश्चिदाह, तन्मतमाह-
१. यदिव्यनायककृतं काव्यं सनामबन्धवधयुक्तम् ।
तद्भारते नु वर्षे कर्तव्य काव्यबन्धेषु ॥ (भरत.,२०.१०१.) इति भरतनाटय-
शास्त्रे व्यकोऽयं विषयः ।