पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३१
तृतीयोद्द्योतः


 अत एव च भरते प्रख्यातवस्तुविषयत्वं प्रख्यातोदात्तनायकत्वं च

नाटकस्यावश्यकर्तव्यतयोपन्यस्तम् । तेन हि नायकौचित्यानौचित्यविषये

कविर्न व्यामुह्यति । यस्तूपाद्यवस्तु नाटकादि कुर्यातस्याप्रसिद्धानुचितनाय.

कस्वभाववर्णने महान् प्रमादः ।


लोचनम्

 एतदुक्तं भवति-यत्र विनेयानां प्रतीतिखण्डना न जायते तादृग्वर्णनीयम् । तत्र केवलमानुषस्य एकपदे सप्तार्णवलङ्घनमसम्भाव्यमानतयानृतमिति हृदये स्फुर- दुपदेश्यस्य चतुर्वर्गोपायस्याप्यलीकतां बुद्धौ निवेशयति । रामादेस्तु तथाविधमपि चरितं पूर्वप्रसिद्धिपरम्परोपचितसम्प्रत्ययोपारूढमसत्यतया न चकास्ति । अत एव तस्यापि यदा प्रभावान्तरमुत्प्रेक्ष्यते तदा तादृशमेव । न त्वसम्भावनापदं वर्णनी- यमिति । तेन हीति । प्रख्यातोदात्तनायकवस्तुत्वेन । व्यामुह्यतीति किं वर्णयेय मिति । यस्त्विति कविः । महान् प्रमाद इति । तेनोत्पाद्यवस्तु नाटकादि न

बालप्रिया

 शङ्कते-'नन्वि'त्यादि । 'नागलोके ति । नाकलोकेति च पाठः । तदिति । तस्मादित्यर्थः । क्षमाभुजामित्यस्य वर्णने इत्यनेन सम्बन्धः । किमिति प्रश्ने निषेधे वा । परिहरति-नैतदि'त्यादि । नैतदस्ति एतच्चोद्यं न भवति । कुत इत्यत्राह- 'नेत्यादि । राज्ञां प्रभावातिशयवर्णनं यद्द्वयं तदनुचितं न ब्रूम इति सम्बन्धः। व्यति- रिक्तन्त्वित्यादिग्रन्थस्य सारार्थमाह लोचने-एतदुक्तमित्यादि । यत्रेति । वण्यमाने यस्मिंश्चरित इत्यर्थः । प्रतीतिखण्डना प्रतीतेरप्रतिष्ठा । केवलमानुषस्येति । वर्ण्यमानमिति शेषः । सप्तार्णवलङ्घनं कर्तृ निवेशयतीति सम्बन्धः । अनु. तमितीति । असत्यत्वेनेत्यर्थः । हृदये बुद्धावित्युभयत्र विनेयानामित्यस्यानुषङ्गेण सम्बन्धः । मलीकतामिति । असत्यतामित्यर्थः । विशेषमाह-रामादेस्त्विति । तथाविधमिति । अर्णवलघड्नादिरूपमित्यर्थः । पूर्वप्रसिद्धीति । पूर्वा पुरातनी या प्रसिद्धिपरम्परा तया उपचितो यः सम्प्रत्ययो विश्वासः तमुपारूढमिति हेतुगर्भम् । तस्यापि रामादेरपि । उत्प्रेक्ष्यते कल्पनापूर्वकं वर्ण्यते। तादृशमेव असत्यतया स्फुरेदेव । परमतात्पर्यमाह-न त्वित्यादि । असम्भावनापदमिति । असम्भा- व्यत्वबुद्धिविषयभूतमित्यर्थः । व्यामोहाकारमाह-किमित्यादि। मुनिना नाटकादे. रुत्पाद्यवस्तुत्वस्यानिरूपितत्वादुत्पाद्यवस्तुनाटकादीति यथाश्रुतार्थस्यासङ्गत्या यो नाट- कादि उत्पाद्यवस्तु सत् कुर्यात्तस्य महान् प्रमादस्स्यादिति योजनाम्मनसि कृत्य तात्पर्य ववृणोति-तेनेत्यादि । तेन कवेर्महतः प्रमादस्य प्रसङ्गेन हेतुना । मुनिना नाटकादि