पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३०
सटीकलोचनोपेतध्वन्यालोके


न्धनमेकम् । तत्र विभावौचित्यं तावत्प्रसिद्धम् । भावौचित्यं तु प्रकृत्यौ. चित्यात् । प्रकृतिर्ह्युत्तममध्यमाधमभावेन दिव्यमानुषादिभावेन च विभे. दिनी । तां यथायथमनुसृत्यासङ्कीर्णः स्थायी भाव उपनिबध्यमान औचि त्यभाग् भवति । अन्यथा तु केवल मानुषाश्रयेण दिव्यस्य केवलदिव्या- श्रयेण वा केवलमानुषस्योत्साहादय उपनिबध्यमाना अनुचिता भवन्ति । तथा च केवलमानुषस्य राजादेर्वर्णने सप्तार्णवलङ्घनादिलक्षणा व्यापारा उपनिबध्यमानाः सौष्ठवभृतोऽपि नीरसा एवं नियमेन भवन्ति, तत्र त्वनौ. चित्यमेव हेतुः।

 ननु नागलोकगमनादयः सातवाहनप्रभृतीनां श्रूयन्ते, तदलोकसामा. न्यप्रभावातिशयवर्णने किमनौचित्यं सर्वोर्वीभरणक्षमाणां क्षमाभुजामिति । नैतदस्ति; न वयं ब्रूमो यत्प्रभावातिशयवर्णनमनुचितं राज्ञाम् , किंतु केवलमानुषाश्रयेण योत्पाद्यवस्तुकथा क्रियते तस्यां दिव्यमौचित्यं न योजनीयम् । दिव्यमानुष्यायां तु कथायामुभयौचित्ययोजनमविरुद्धमेव । यथा पाण्ड्वादिकथायाम् । सातवाहनादिषु तु येषु यावदपदानं श्रूयते तेषु तावन्मात्रमनुगम्यमानमनुगुणत्वेन प्रतिभासते । व्यतिरिक्तं तु तेषा- मेवोपनिबध्यमानमनुचितम् । तदयमत्र परमार्थ:-

अनौचित्यादृते नान्यद्रसभङ्गस्य कारणम् ।
प्रसिद्धौचित्यबन्धस्तु रसस्योपनिषत्परा ।।


लोचनम्

हर्षधृत्त्यादेः सञ्चारिणः स्फुट एव सद्भाव इत्यर्थः । प्रसिद्धमिति । लोके भरत. शास्त्रे च । व्यापार इति । तद्विषयोत्साहोपलक्षणमेतत् । स्थाय्यौचित्यं हि व्याख्ये- यत्वेनोपक्रान्तं नानुभावौचित्यम् । सौष्ठवभृतोऽपीति । वर्णनामहिम्नेत्यर्थः । तत्र त्विति नीरसत्वे । व्यतिरिक्तं त्विति । अधिकमित्यर्थः ।

बालाप्रया

कारातिक्रमणेन । दिव्यस्य उत्साहादयः केवलमानुषाश्रयेण केवलमानुषस्योत्साहादयः केवलदिव्याश्रयेण वा उपनिबध्यमाना इत्यन्वयः । तथाचेति । तथाहीत्यर्थः । लोच. ने-तद्विषयेति । व्यापारविषयकेत्यर्थः । एतदिति । व्यापारपदमित्यर्थः । कुत इत्यत आह-स्थायीत्यादि । वृत्तौ 'भान्तीति 'भवन्तीति च पाठः ।