प्रकाशमानः प्रसिद्ध एव । तस्य तु यथा प्रकाशनं तत्प्रतिपाद्यते-
विभावभावानुभावसञ्चार्यौचित्यचारुणः। |
इतिवृत्तवशायातां त्यक्त्वाननुगुणां स्थितिम् । |
सन्धिसन्ध्यङ्गघटनं रसाभिव्यक्त्यपेक्षया । |
उद्दीपनप्रशमने यथावसरमन्तरा । |
अलङ्कृतीनां शक्तावप्यानुरूप्येण योजनम् । |
प्रबन्धोऽपि रसादीनां व्यञ्जक इत्युक्तं तस्य व्यञ्जकत्वे निबन्धनम् । प्रथमं तावाद्वभावभावानुभावसञ्चार्यौचित्यचारुणः कथाशरीरस्य विधिर्य- थायथं प्रतिपिपादयिषितरसभावाद्यपेक्षया य उचितो विभावो भावोऽनु. भावः सञ्चारी वा तदौचित्यचारुणः कथाशरीरस्य विधिर्य॑ञ्जकत्वे निब.
लोचनम्
पर्यन्ततानयनम् , रसं प्रति जागरणम् ,तदुचितविभावादिवर्णनेऽलङ्कारौचित्यमिति । तत्क्रमेण पञ्चकं व्याचष्टे-विभावेत्यादिना । तदौचित्येति । शृङ्गारवर्णने. च्छुना तादृशी कथा संश्रयणीया यस्यामृतुमाल्यादेर्विभावस्य लीलादेरनुभावस्य
बालप्रिया
शेषः । तत्पञ्कमिति । आयञ्चतुष्टयं श्लोकचतुष्टयेन क्रमानिर्दिष्टं, पञ्चमन्तवर्धश्लो- केनेति बोध्यम् । विभावाद्यौचित्यचारुणः कथाशरीरस्य विधिरित्येतद्रसविशेषमुपा- दाय विवृणोति-शृङ्गारवर्णने चुम्बनेत्यादि । वृत्तौ 'प्रकृतिरित्यादि । प्रकृतिः स्वभावः । 'दिव्ये त्यादि । दिव्या मानुषी दिव्यमानुषी पातालीयेत्यादिर्बहुविधेयर्थः । तत्र दिव्या प्रकृतिरमत्यैकरूपत्वं यथा श्रीमहेश्वरादेः । मानुषी मर्त्यैकरूपत्वं यथा माधवादेः । दिव्यमानुषी पाण्डवादेरिति बोध्यम् । 'तामिति । प्रकृतिमित्यर्थः । 'असङ्कीर्णः' स्थाय्यन्तरासङ्कीर्णः । 'औचित्यवानिति। औचित्यमागिति च पाठः । क्वचिद्ग्रन्थे भवतीत्यनन्तरं नान्यथेति च पाठः । 'अन्यथेत्यादि । अन्यथा उक्तप्र.
४२ ध्वः