पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२८
सटीकलोचनोपेतध्वन्यालोके


भवति । तत्तु विषयापेक्षं किञ्चिद्विशेषवद्भवति, न तु सर्वाकारम् । तथा हि गद्यबन्धेऽप्यतिदीर्घसमासा रचना न विप्रलम्भशृङ्गारकरुणयोराख्या- यिकायामपि शोभते । नाटकादावध्यसमासैव न रौद्रवीरादिवर्णने । विष. यापेक्षं त्वौचित्यं प्रमाणतोऽपकृष्यते प्रकृष्यते च । तथा ह्याख्यायि. कायां नात्यन्तमसमासा स्वविषयेऽपि नाटकादौ नातिदीर्घसमासा चेलि सङ्घटनाया दिगनुसर्तव्या ।

 इदानीमलक्ष्यक्रमव्यङ्गयो ध्वनिः प्रबन्धात्मा रामायणमहाभारतादौ


लोचनम्

भवति । एतद्व्याचष्टे-तत्विति । सर्वाकारमिति क्रियाविशेषणम् । आसमासैवेति । सर्वत्रैवेति शेषः। तथा हि वाक्याभिनयलक्षणे 'चूर्णपादैः प्रसन्नैः इत्यादि मुनि- रभ्यधात् । अत्रापवादमाह-न चेति। नाटकादाविति । स्वविषयेऽपीति सम्बन्धः ॥९॥

 एवं सघटनायां चालक्ष्यक्रमो दीप्यत इति निर्णीतम् । प्रबन्धे दीप्यत इति तु निर्विवादसिद्धोऽयमर्थ इति नात्र वक्तव्यं किञ्चिदस्ति । केवलं कविसहृदयान् व्युत्पाद- यितुं रसव्यञ्जने येतिकर्तव्यता प्रबन्धस्य सा निरूप्येत्याशयेनाह-इदानीमिति । इदानीं तत्प्रकार जातं प्रतिपाद्यत इति सम्बन्धः । प्रथमं दावदिति प्रबन्धस्य व्यञ्ज. कत्वे ये प्रकारास्ते क्रमेणैवोपयोगिनः । पूर्व हि कथापरीक्षा। तत्राधिकावापः फल-

बालप्रिया

त्यादि । किञ्चिद्विभेदवदित्यस्य विवरणम्-किञ्चिदित्यादि । यस्य सम्पाद्यत्वेन विद्यत इति सम्बन्धः । सर्वत्रैवासमासेत्यत्र मुनिवचनं प्रमाणयति-तथाहीत्यदि । वृत्तौ 'न चेत्यत्र असमासैवेत्यस्यानुषङ्गः । 'प्रमाणत' इति। र सबन्धोक्तौचित्यरूपात्प्रमाणादि- त्यर्थः । 'आख्यायिकायामित्यादि । 'स्वविषयेऽपीति । अत्यन्तासमासाया विषये शृङ्गारादावपीत्यर्थः । 'नेति । शोभत इत्यस्यानुषङ्गः । न चारुरित्यर्थः । नाटकादा'. विति । स्वविषयेऽपीत्यस्यानुषङ्गः। अतिदीर्घसमासायास्सङ्घटनाया विषये रौद्रवीरा. दावपीत्यर्थः । 'नातीति । अतिदीर्घसमासासङ्घटना न शोभत इत्यर्थः । “इतिका. व्याथै”त्यादिश्लोकः क्वचिद्ग्रन्थे न दृश्यते, अत एव न व्याख्यातः ॥ ९ ॥

 लोचनेऽवतारयति-एवमित्यादि । येतिकर्तव्यतेति । यः प्रकार इत्यर्थः । निरूप्या निरूपणार्हा । इदानी मित्यस्यान्वयं 'तत्प्रतिपाद्यत' इत्यत्र तत्पदार्थञ्च दर्श- यति-इदानीमित्यादि । प्रथमन्तावदितीति प्रतीकधारणम् । विभावेत्यादिनिर्देशक्र- मस्य बीजन्दर्शयति-प्रबन्धस्येत्यादि । फलपर्यन्ततानयनमिति । कथाया इति


 १. भरतना.,