पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२७
तृतीयोद्द्योतः


यिकायां तु भूम्ना मध्यमसमासादीर्घसमासे एव सङ्घटने । गद्यस्य विक.

टबन्धाश्रयेण छायावत्तेवात् । तत्र च तस्य प्रकृष्यमाणत्वात् । कथायां

तु विकटबन्धप्राचुर्येऽपि गद्यस्य रसबन्धोक्तमौचित्यमनुसर्तव्यम् ।

रसबन्धोक्तमौचित्यं भाति सर्वत्र संश्रिता ।
रचना विषयापेक्षं तत्तु किञ्चिद्विभेदवत् ।। ९ ।।

 अथवा पद्यवद्द्यबन्धेऽपि रसबन्धोक्तमौचित्यं सर्वत्र संश्रिता रचना


लोचनम्

 विषयापेक्षमिति । गद्यबन्धस्य भेदा एव विषयत्वेनानुमन्तव्याः ॥ ८ ॥

 स्थितपक्षन्तु दर्शयति-रसबन्धोक्तमिति । वृत्तौ च वाशब्दोऽस्यैव पक्षस्य

स्थितिद्योतकः । यथा-

स्त्रियो नरपतिर्वह्निर्विषं युक्त्या निषेवितम् ।
स्वार्थाय यदि वा दुःखसम्भारायैव केवलम् ॥ इति ।

 रचना सङ्घटना । तर्हि विषयौचित्यं सर्वथैव त्यक्तं नेत्याह-तदेव रसौचित्यं

विषयं सहकारितयापेक्ष्य किञ्चिद्विभेदोऽवान्तरवैचित्र्यं विद्यते यस्य सम्पाद्यत्वेन तादृशं

बालप्रिया

 विषयत्वेनेति । विषयशब्दार्थत्वेनेत्यर्थः ॥ ८ ॥

 'रसबन्धेति कारिकायां रचना सर्वत्र रसबन्धोक्तमौचित्यं संश्रिता भातीत्यन्वयः। वृत्तौ 'अथवेति न विकल्पार्थक इत्याह- -वृत्तौ च वाशब्द इति । चकारो वाक्यालङ्कारे। वाशब्द इति। अथवेत्यत्र वाशब्द इत्यर्थः। अस्येति । पद्यवदित्या- दिना वक्ष्यमाणस्येत्यर्थः । स्थितिद्योतक इति । निश्चितत्वरूपस्थितत्वद्योतक इत्यर्थः । सम्मतत्वद्योतक इति यावत् । अथवेत्यादिना पक्षान्तरकथने खलु शास्त्रका- राणां निर्भरः। उक्तार्थे महाकविप्रयोगमुपष्टम्भकतया दर्शयति-स्त्रिय इति । युक्त्या निषेवितं स्यादिचतुष्टयं स्वार्थाय स्वप्रयोजनाय भवति । इत्थं प्रसिद्धयनुरोधेनोक्त्वा स्वमतमाह- -यदि वेत्यादि । युक्त्यान्यथा वा निषेवितं तच्चतुष्टयं केवलं दुःखस. म्भाराय दुःखातिशयायैव भवति । अत्र यदिवेति दुःखसम्भारायैवेति स्थितपक्षद्योत. कम् । “विषप्यमृतं क्वचिद्भवेदभृतं वा विषमीश्वरेच्छयेति रघुवंशश्लोकव्याख्याने "वाशब्दो वाक्यार्थस्य स्थितपक्षतां द्योतयतीत्यरुणाचलनाथाः। कारिका व्य चष्टे- रचनेत्यादि । तर्हीति । रचनाया रसबन्धोक्तौचित्याश्रयणेन सर्वत्र भवनस्वीकारे सतीत्यर्थः । त्यक्तमिति । किन्त्यक्तमिति चौद्यम् । नेत्याहेति । न त्यक्तमिति प्रति. वक्तीत्यर्थः। तत्त्वित्यस्य व्याख्यानम्-तदेवेति । तत्पदार्थमाह-रसौचित्य- मिति । रसबन्धोक्तौचित्यमित्यर्थः । विषयापेक्षमित्यस्य विवरणम्-विषयमि-