पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२६
सटीकलोचनोपेतध्वन्यालोके


बन्धे तु रसतात्पर्ये यथारसमौचित्यमन्यथा तु कामचारः, द्वयोरपि मार्गयोः सर्गबन्धविधायिनां दर्शनाद्रसतात्पर्यं साधीयः । अभिनेयार्थे तु सर्वथा रसबन्धेऽभिनिवेशः कार्यः । आख्यायिकाकथयोस्तु गद्यनिबन्धनबाहुल्या. द्गद्ये च छन्दोबन्धभिन्नप्रस्थानत्वादिह नियमे हेतुरकृतपूर्वोऽपि मना- विक्रयते ।

एतद्ययोक्तमौचित्यमेव तस्या नियामकम् ।
सर्वत्र गद्यबन्धेऽपि छन्दोनियमवर्जिते ॥ ८ ॥

 यदेतदौचित्यं वक्तृवाच्यगतं सङ्घटनाया नियामकमुक्तमेतदेव गद्ये छन्दोनियमवर्जितेऽपि विषयापेक्षं नियमहेतुः । तथा ह्यत्रापि यदा कविः कविनिबद्धो वा वक्ता रसभावरहितस्तदा कामचारः। रसभावसमन्विते तु वक्तरि पूर्वोक्तमेवानुसर्तव्यम् । तत्रापि च विषयौचित्यमेव । आख्या-


लोचनम्

श्रयेविति । सन्दानितकादिषु कुलकान्तेषु । यदि वा प्रबन्धेऽपि मुक्तकस्यास्तु सद्भावः, पूर्वापरनिरपेक्षेणापि हि येन रसचर्वणा क्रियते तदेव मुक्तकम् । यथा-'त्वामालिख्य प्रणयकुपिता' इत्यादिश्लोकः । कदाचिदिति रौद्रादिविषये । नात्यन्तमिति । रस- बन्धे यो नात्यन्तमभिनिवेशस्तस्मादिति सङ्गतिः । वृत्त्यौचित्यमिति । परुषोपना- गरिकाग्राम्याणां वृत्तीनामौचित्यं यथाप्रबन्धं यथारसं च । अन्यथेति । कथामात्रता- त्पर्ये वृत्तिष्वपि कामचारः । द्वयोरपीति सप्तमी। कथातात्पर्ये सर्गबन्धो यथा भट्ट- जयन्तकस्य कादम्बरीकथासारम् । रसतात्पर्यं यथा रघुवंशादि। अन्ये तु संस्कृत प्राकृतयोर्द्योरिति व्याचक्षते । तत्र तु रसतात्पर्य साधीय इति यदुक्तं तत्किमपेक्षयेति नेयार्थं स्यात् ॥ ७ ॥

बालप्रिया

प्रबन्धेष्वसम्भवादित्याह-सन्दानितकादिस्वित्यादि । पक्षान्तरमाह-यदिवेत्यादि । ननु तर्हि किं मुक्तकलक्षणमित्यत आह-पूर्वत्यादि । नात्यन्तमित्याद्येकं पदम् । रसबन्धेऽभिनिवेशो रसवन्धाभिनिवेशः अत्यन्तं रसबन्धाभिनिवेशो यस्तस्या- भावः नात्यन्तरसबन्धाभिनिवेशस्तस्मादित्यर्थ इत्यभिप्रायेण व्याचष्टे-रसबन्ध इत्यादि । अत्यन्तं रसबन्धानभिनिवेशादिति च वृत्तौ पाठः । द्वयोरपि मार्गयोरिति सप्तम्यन्ते । तात्पर्यस्येति शेषः । कथातात्पर्यस्य रसतात्पर्यस्य चेत्यर्थ इत्याह- द्वयोरित्यादि । द्वयोरपि मार्गयोरित्यस्य व्याख्यानान्तरमाह-अन्य इत्यादि । तद्- दूषयति-तत्रेत्यादि ॥ ७ ॥ .