पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२५
तृतीयोद्द्योतः


 मुक्तकेषु प्रबन्धेष्विव रसबन्धाभिनिवेशिनः कवयो दृश्यन्ते । यथा ह्यमरुकस्य कवेर्मुक्तकाः शृङ्गाररसस्यन्दिनः प्रबन्धायमानाः प्रसिद्धा एव । सन्दानितकादिषु तु विकटनिबन्धनौचित्यान्मध्यमसमासादीर्घसमासे एव रचने । प्रबन्धाश्रयेषु यथोक्तप्रबन्धौचित्यमेवानुसर्तव्यम् । पर्या. यबन्धे पुनरसमासामध्यमसमासे एव सङ्घटने । कदाचिदर्थौचित्याश्रयेण दीर्घसमासायामपि सङ्घटनायां परुषा ग्राम्या च वृत्तिः परिहर्तव्या । परिक- थायां कामचारः, तत्रेतिवृत्तमात्रोपन्यासेन नात्यन्तरसबन्धाभिनिवेशात् । खण्डकथासकलकथयोस्तु प्राकृतप्रसिद्धयोः कुलकादिनिबन्धनभूयस्त्वाद्दी- र्घसमासायामपि न विरोधः । वृत्त्यौचित्यं तु यथारसमनुसर्तव्यम् । सर्ग-


लोचनम्

 ननु मुक्तके विभावादिसङ्घटना कथं येन तदायत्तो रसः स्यादित्याशङ्कयाह- मुक्तकेष्विति । अमरुकस्येति ।

कथमपि कृतप्रत्यापत्तौ प्रिये स्खलितोत्तरे
विरहकृशया कृत्वा व्याजप्रकल्पितमश्रुतम् ।
असहनसखीश्रोत्रप्राप्तिं विशङ्कय ससम्भ्रमं
विवलितदृशा शून्ये गेहे समुच्छ्वसितं ततः ॥

 इत्यत्र हि श्लोके स्फुटैव विभावादिसम्पत्प्रतीतिः । विकटेति । असमासायां दि सङ्घटनायां मन्थररूपा प्रतीतिः साकाङ्क्षा सती चिरेण क्रियापदं दूरवर्त्यनुधावन्ती वाच्यप्रतीतावेव विश्रान्ता सती न रसतत्वचर्वणायोग्या स्यादिति भावः । प्रबन्धा-

बालप्रिया

मासे एवेत्युक्तमुपपादयति-असमासायामित्यादि । सङ्घटनायामिति । सत्यामिति शेषः । मन्थररूपेति । मन्दीभवन्तीत्यर्थः । साकाङ्क्षेति । क्रियाद्याका. ङ्क्षासहितेत्यर्थः । वाच्यप्रतीतावेव विश्रान्तेति । वाच्यार्थप्रतीतेश्चिरेणैव जायमा- नत्वादिति भावः |न म्यादिति । तथाच वाच्यप्रतीतिमान्थर्यादिपरिहाराय मध्यमसमासा दीर्घसमासा वा सङ्घटना कार्येति भावः । प्रबन्धाश्रयेष्वित्यत्र सन्दा- नितकादिष्वित्यस्यैवानुषङ्गो न तु मुक्तकेष्वित्यस्यापि पूर्वोक्तलक्षणस्य मुक्तकस्य


 १. सङ्घटने इत्येव पाठस्स्वारसिकः प्रतिभाति । पूर्वकारिकायां 'सङ्घटनोदिता' इत्युक्तः । एतत्कारिकावृत्तावपि 'सघटनां नियच्छति' इत्यादिव्याहृतेश्च ।

 २. अत्यन्तमिति विभक्तिप्रतिरूपकमव्ययमिति भावः ।