पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२४
सटीकलोचनोपेतध्वन्यालोके


णापि सङ्घटना विशेषवती भवति । तत्र मुक्तकेषु रसबन्धाभिनिवेशिनः

कवेस्तदाश्रयमौचित्यम् । तच्च दर्शितमेव । अन्यत्र कामचारः ।


लोचनम्

स्यैव विशेषणं संस्कृतेत्यादि । क्रमभावित्वात्तथैव निर्देशः। द्वाभ्यां क्रियासमाप्तो सन्दानितकम् । त्रिभिर्विशेषकम् । चतुर्भिः कलापकम् । पञ्चप्रभृतिभिः कुलकम् । इति क्रियासमाप्तिकृता भेदा इति द्वन्द्वेन निर्दिष्टाः । अवान्तरक्रियासमाप्तावपि वसन्त- वर्णनादिरेकवर्णनीयोद्देशेन प्रवृत्तः पर्यायवन्धः। एकं धर्मादिपुरुषार्थ मुद्दिश्य प्रकार• वैचित्र्येणानन्तवृत्तान्तवर्णनप्रकारा परिकथा । एकदेशवर्णना खण्डकथा । समस्तफला- न्तेतिवृत्तवर्णना सकलकथा। द्वयोरपि प्राकृतप्रसिद्धत्वाद्वन्द्वेन निर्देशः। पूर्वेषां तु मुक्तकादीनां भाषायामनियमः । महाकाव्यरूपः पुरुषार्थफलः समस्तवस्तुवर्णनाप्रबन्धः सर्गबन्धः संस्कृत एव । अभिनेयार्थ दशरूपकं नाटिकात्रोटकरासकप्रकरणिकाद्यवान्तर- प्रपञ्चसहितमनेकभाषाव्यामिश्ररूपम् । आख्यायिकोच्छ्वासादिना वक्त्रापरवक्त्रादिना च युक्ता। कथा तद्विरहिता । उभयोरपि गद्यबन्धस्वरूपतया द्वन्द्वेन निर्देशः । आदिग्रहणाच्चम्पूः । यथाह दण्डी-'गद्यपद्यमयी चम्पूः' इति । अन्यत्रेति । रसब- न्धानभिनिवेशे।

बालप्रिया

रूढिदर्शिता । तेनेति । रूढेरपि सत्वेनेत्यर्थः । न मुक्तकमित्युच्यत इति । प्रब. न्धानन्तर्गत एव रूढिस्वीकारादिति भावः। संस्कृतप्राकृतापभ्रंशनिबद्धमित्येकवच- नान्तत्वेन निर्देशादाह-मुक्तकस्यैवेत्यादि । विशेषणमिति । एकवचनान्तत्वेनो. क्तेरिति शेषः । सन्दानितकेत्यादिना तु विपरिणामेन तत्पदं योज्य मिति भावः । एतेन पूर्वेषान्तु मुक्तकादीनां भाषायामनियम इति वक्ष्यमाणस्य नासङ्गतिः । हेमचन्द्रेणाप्ये- वमुक्तं "एतानि सर्वभाषाभिर्भवन्तीति । संस्कृतादीनां लक्षणानि काव्यादर्शादावु. क्तानि । क्रमभावित्वादिति । संस्कृतात्प्राकृतस्य तस्मादपभ्रंशस्य चोत्पन्नत्वादिति भावः । तथैव संस्कृतेत्यादिक्रमेणैव । त्रिभिरित्यादौ क्रियासमाप्तावित्यस्यानुषङ्गः । कृता भेदा इति । एषामिति शेषः । इतीति हेतौ । क्रियासमाप्तिकृतभेदत्वेन समप्रा- धान्यादित्यर्थः । द्वन्द्वेन सन्दानितकेत्यादिना । प्रवृत्तः निबद्धः। एकं धर्मादीति । धर्मादिषु पुरुषार्थेष्वेकमित्यर्थः । कदेशेति । प्रसिद्धेतिवृत्तैकदेशेत्यर्थः । महाका- व्यरूप इति । महाकाव्यादीनां लक्षणानि काव्यादर्शादावुक्तानि । द्वन्द्वेनेति । 'आख्य- यिकेत्यादिद्वन्द्वैन । कथमपि कृतप्रत्यापत्ताविति । प्रत्यापत्तिः प्रत्यागमनम् । स्खलितं सजातगोत्रस्खलनम् । कृत्वेत्यादिव्याजेनाश्रवणमभिनीयेत्यर्थः । शुन्ये स- स्त्रीशून्ये । श्लोकोऽयं काव्यालङ्कारसङ्ग्रहव्याख्यायां विवृतः। 'मध्यमसमासादीर्घस-