पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२३
तृतीयोद्द्योतः


विषयाश्रयमप्यन्यदौचित्यं तां नियच्छति ।
काव्यप्रमेदाश्रयतः स्थिता भेदवती हि सा ॥ ७॥

 वक्तृवाच्यगतौचित्ये सत्यपि विषयाश्रयमन्यदौचित्यं सङ्घटना निय. च्छति । यतः काव्यस्य प्रभेदा मुक्तकं संस्कृतप्राकृतापभ्रंशनिबद्धम् । सन्दानितकविशेषककलापककुलकानि । पर्यायबन्धः परिकथा खण्डकथा सकलकथे सर्गबन्धोऽभिनेयार्थमाख्यायिकाकथे इत्येवमादयः । तदाश्रये-


लोचनम्

हेतुत्वेनोक्तं तद्गुणानामपि नियमहेतुरिति पक्षत्रयेऽपि न कश्चिद्विप्लव इति तात्पर्यम् ॥ ५, ६ ॥

 नियामकान्तरमप्यस्तीत्याह-विषयाश्रयमिति । विषयशब्देन सङ्घातविशेष उक्तः । यथा हि सेनाद्यात्मकसङ्घातनिवेशी पुरुषः कातरोऽपि तदौचित्यादनुगुणतयः वास्ते तथा काव्यवाक्यमपि सघातविशेषात्म कसन्दानितकादिमध्यनिविष्टं तदौचि- त्येन वर्तते । मुक्तकं तु विषयशब्देन यदुक्तं तत्सङ्घाताभावेन स्वातन्त्र्यमानं प्रदर्श- यितुं स्वप्रतिष्ठितमाकाश मिति यथा । अपिशब्देनेदमाह-सत्यपि वक्तृवाच्यौचित्ये विषयौचित्यं केवलं तारतम्यभेदमात्रव्याप्तम् , न तु विषयौचित्येन वक्तृवाच्यौचित्यं निवार्यत इति । मुक्तकमिति । मुक्तमन्येनानालिङ्गितं तस्य सञ्ज्ञायां कन् । तेन स्वतन्त्रतया परिसमाप्तनिराकाङ्क्षार्थमपि प्रबन्धमध्यवर्ति न मुक्तकमित्युच्यते । मुक्तक

बालप्रिया

 सदृष्टान्तं विवृणोति-यथेत्यादि । सेनेति । सेनाद्यात्मको यस्सङ्घातः समु- दायः तत्र निवेशी निविष्टः । कातरोऽपीति । स्वतः अधीरोऽपीत्यर्थः । कातरादिर- पीति च पाठः । तदनुगुणतयेति । सेनाद्यनुगुणतयेत्यर्थः । अकातरत्वेनेति यावत् । काव्यवाक्यमिति । काव्यरूपं वाक्यमित्यर्थः । नन्वेवं मुक्तकस्यैकपद्यात्मकस्य सङ्घातरूपत्वाभावात् वृत्तौ तस्य काव्यप्रभेदत्वेन कथनं किमर्थमित्यत आह-मुक्त- कन्वित्यादि । तत् तद्वचनम् । सङ्घाताभावेन सङ्घातरूपत्वाभावेन । स्वात. न्त्र्येति । मुक्तकस्यापि रसस्यन्दित्वात्सङ्घटनानियमने स्वातन्त्र्यमस्तीत्येतावन्मात्रं प्रदर्शयितुं मुक्तकमपि काव्यप्रभेदत्वेनोक्तमित्यर्थः । अत्र दृष्टान्तमाह-स्वेत्यादि । पृथिव्यादीनाच्चतुर्णामाकाशे प्रतिष्ठितत्वमित्युक्तावाकाशस्य कुत्र प्रतिष्ठेति प्रश्ने प्रतिवा. क्यमिदमाकाशं स्वस्मिन्नाकाशे प्रतिष्ठितमिति ब्रह्म ब्रह्मणीव आकाशमाकाश एव प्रति. ष्ठितन्नान्यत्रेत्यर्थः । यथैतद्वचनमाकाशस्य स्वातन्त्र्यप्रदर्शकमात्रं तथेत्यर्थः । सत्य- पीति । सत्येवेत्यर्थः । तारतम्येति । तारतम्यभेदमात्र प्रयोजकमित्यर्थः । अन्येना- नालिङ्गितमिति । निराकाङ्क्षप्रतिपत्तये स्वेतरानपेक्षीत्यर्थः। संज्ञायां कन्निति। अनेन