पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२२
सटीकलोचनोपेतध्वन्यालोके


स हि सर्वरससाधारणः सर्वसङ्घटनासाधारणश्चेत्युक्तम् । प्रसादातिक्रमे ह्यसमासापि सङ्घटना करुणविप्रलम्भशृङ्गारौ न व्यनक्ति । तदपरित्यागे च मध्यमसमासापि न न प्रकाशयति । तस्मात्सर्वत्र प्रसादोऽनुसर्तव्यः । अत एव च 'यो यः शस्त्रं बिभर्ति' इत्यादौ यद्योजसः स्थितिर्नेष्यते तत्प्रसादाख्य एव गुणो न माधुर्यम् । न चाचारुत्वम् ; अभिप्रेतरसप्रका- शनात् । तस्माद्गुणाव्यतिरिक्तत्वे गुणव्यतिरिक्तत्वे वा सङ्घटनाया यथो. क्तादौचित्याद्विषयनियमोऽस्तीति तस्या अपि रसव्यञ्जकत्वम् । तस्याश्च रसाभिव्यक्तिनिमित्तभूताया योऽयमनन्तरोक्तो नियमहेतुः स एव गुणानां नियतो विषय इति गुणाश्रयेण व्यवस्थानमप्यविरुद्धम् ।


लोचनम्

ति । व्यञ्जकस्य स्ववाच्यस्यैवाप्रत्यायनादिति भावः । तदिति । प्रसादस्यापरित्यागे अ- भीष्टत्वादत्रार्थे स्वकण्ठेनान्वयव्यतिरेकायुक्तौ। न माधुर्यमिति। ओजोमाधुर्ययोर्ह्यंन्यो- न्याभावरूपत्वं प्राङ्निरूपितमिति तयोः सङ्करोऽत्यन्तं श्रुतिबाह्य इति भावः । अभि- प्रेतेति । प्रसादेनैव स रसः प्रकाशितः न न प्रकाशित इत्यर्थः । तस्मादिति । यदि गुणाः सङ्घटनैकरूपास्तथापि गुणनियम एव सङ्घटनाया नियमः। गुणाधीनसङ्घटनाप- क्षेऽप्येवम् । सङ्घटनाश्रयगुणपक्षेऽपि सङ्घटनाया नियामकत्वेन यद्वक्तृवाच्यौचित्यं

बालप्रिया

त्यादि । यो वाच्यो व्यङ्गयाभिव्यञ्जको न भवतीति सम्बन्धः। स्वस्ववाचकशब्दाना दीर्घसमाससङ्घटनाङ्कितत्वे सत्येव वाच्यार्था व्यञ्जका भवन्तीति भावः। अपेक्षये- त्यस्य विगुणा न भवतीत्यनेनान्वय इत्याह-सेत्यादि । तदाक्षेपेत्यत्र व्याख्याना- न्तरं प्रदर्श्य निराकरोति-नायकस्येत्यादि । न श्लिष्यतीति । अन्वयानुगुण्या- भावादिति भावः । प्रसादाख्यो गुणो व्यापीत्युक्तं विवृणोति-येत्यादि । या काचि- त्सङ्घटना सेति । दीर्घसमादिरूपा सङ्घटनेत्यर्थः । अभीष्टत्वादिति । प्रसादा. नुसरणस्याभिप्रेतत्वादित्यर्थः । उक्तावित्यनेनास्य सम्बन्धः । अत्रार्थ इति । सर्वत्र प्रसादस्यानुसर्तव्यत्व इत्यर्थः । स्वकण्ठेनेत्यादि । तदपरित्यागे न न प्रकाशयतीत्य- नेनान्वयः, प्रसादातिक्रम इत्यादिना व्यतिरेकश्वोक्त इत्यर्थः। भावमाह-मोजो माधुर्यद्योरित्यादि । अन्योन्येति । माधुर्याभावरूपत्वमोजसस्तदभावरूपत्वं माधु. र्यस्य चेत्यर्थः । सङ्कर इति । शृङ्गारादावोजसो रौद्रादौ माधुर्यस्य च समावेश इत्यर्थः । श्रुतिबाह्य इति । अश्रुत इत्यर्थः । तस्मादित्याद्यविरुद्धमित्यन्तग्रन्थस्य तात्पर्यमाह-यदि गुणा इत्यादिना ॥ ५, ६ ॥