पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३२१
प्रथमोद्योतः

तृतीयोद्योतः

शोभते । विशेषतोऽभिनेयार्थे काव्ये, ततोऽन्यत्र च विशेषतः करुणविप्र- लम्भशृङ्गारयोः । तयोहि सुकुमारतरत्वात्स्वल्पायामप्यस्वच्छताया शब्दा- र्थयोः प्रतीतिर्मन्थरीभवति । रसान्तरे पुनः प्रतिपाधे रौद्रादौ मध्यमस. मासा सङ्घटना कदाचिद्धीरोद्धतनायकसम्बन्धव्यापाराश्रयेण दीर्घसमासापि वा तदाक्षेपाविनामाविरसोचितवाच्यापेक्षया न विगुणा भवतीति सापि नात्यन्तं परिहार्या । सर्वासु च सङ्घटनासु प्रसादाख्यो गुणो व्यापी। लोचनम् द्वौ णिचौ । विशेषतोऽभिनेयार्थेति । अत्रुटितेन व्यङ्गयेन तावत्समासार्थाभिनयो न शक्यः कर्तुम् । काकादयोऽन्तरप्रसादगानादयश्च । तत्र दुष्प्रयोजा बहुतरसन्देहप्रसरा च तत्र प्रतिपत्तिर्न नाटयेऽनुरूपा स्यात् । प्रत्यक्षरूपत्वात्तस्या इति भावः। अन्यत्र चेति । अनभिनेयार्थेऽपि । मन्थरीभवतीति। आस्वादो विनितत्वात्प्रतिहन्यत इत्यथः। तस्या दीर्घसमाससघटनायाः य आक्षेपस्तेन विना यो न भवति व्यङ्गयाभिव्यञ्जकस्तादृशो रसोचितो रसव्यञ्जकतयोपादीयमानो वाच्यस्तस्य यासावपेक्षा दीर्घसमाससङ्घटनां प्रति सा अवैगुण्ये हेतुः। नायकस्याक्षेपो व्यापार इति यद्वयाख्यातं तन्न श्लिष्यतीवेत्यलम् । व्यापीति । या काचित्सद्घटना सा तथा कर्तव्या, यथा वाच्ये झटिति भवति प्रतीति- रिति यावत् । उक्तमिति । 'समर्पकत्वं काव्यस्य यत्तु' इत्यादिना । न व्यनक्ती. बालप्रिया शोभत इत्यन्वयः। कुत एतदिति जिज्ञासा परिहतु भावमाह- -अत्रुटितेनेत्यादि । तत्रेति प्रतिवाक्यं योज्यं, दीर्घसमासायां सङ्घटनायां सत्यामिति तदर्थः । अत्रु- टितेन व्यङ्गयेन कतुं न शक्यः, किन्तु व्यङ्गयार्थत्रोटनं कृत्वैव कर्तव्यो भवेदिति भावः । दोषान्तराण्यप्याह-काक्वादय इत्यादि । अन्तरेति । अन्तरे मध्ये प्रसादा ये गानादयस्ते । दुष्प्रयोजाः दुःखेन प्रयोज्याः । तत्र बहुतरसन्देहप्रसरा प्रतिपत्तिश्च स्यात् । सा नाटये न अनुरूपा च इति योजना । अत्र हेतुमाह-प्रत्य- क्षेति । संशयादिविघ्नरहितसाक्षात्काररूपत्वादित्यर्थः । तस्या इति । नाटयप्रतीतेरि- त्यर्थः । नाट्यन्नाम रसचर्वणात्मकप्रतीतिरूपमित्यभिनवभारत्यामुक्तम् । वृत्तौ 'तत्रा- न्यत्र चेति । तस्यामित्यादेरनुषङ्गोऽत्रापि बोध्यः । लोचने भावार्थमाह-आस्वाद इत्यादि । वृत्तौ रसान्तर' इत्यादि । रौद्रादौरसान्तरे पुनः प्रतिपाद्य मध्यमसमासासङ्घ- टना विगुणा न भवति कदाचिद्दीर्घसमासापि वा सङ्घटना विगुणा न भवतीति सम्ब. न्धः। दीर्घसमासाय। अवैगुण्ये हेतुस्तदाक्षेपेत्यादिः । एतं प्रन्थं व्याचष्टे-तस्या इत्यादि । सङ्घटनाया इति कर्मणि षष्ठी । आक्षेपः स्ववाचकशब्दसमुदाये आकर्षः योजनमिति यावत् । तेनाविनाभावीति वाच्यस्य विशेषणमित्याह-तेने-