पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२०
सटीकलोचनोपेतध्वन्यालोके


कामचारः । यदापि कविनिबद्धो वक्ता रसभावरहितस्तदा स एव; यदा तु कविः कविनिबद्धो वा वक्ता रसभावसमन्वितो रसश्च प्रधानाश्रितत्वाद्ध्व- न्यात्मभूतस्तदा नियमेनैव तत्रासमासामध्यसमासे एव सङ्घटने । करुण विप्रलम्भशृङ्गारयोस्त्वसमासैव सङ्घटना । कथमिति चेत् । उच्यते-रसो यदा प्राधान्येन प्रतिपाद्यस्तदा तत्प्रतीतौ व्यवधायका विरोधिनश्च सर्वा- त्मनैव परिहार्याः । एवं च दीर्घसमासासङ्घटनासमासानामनेकप्रकारस- म्भावनया कदाचिद्रसप्रतीति व्यवदधातीति तस्यां नात्यन्तमभिनिवेशः


लोचनम्

रसादिहीन इत्युक्तम् । स एवेति कामचारः । एवं शुद्धवक्त्रौचित्यं विचार्य वाच्यौचित्येन सह तदेवाह-यदा त्विति । कविर्यद्यपि रसाविष्ट एव वक्ता युक्तः । अन्यथा 'स एव वीतरागश्चेत्' इति स्थित्या नीरसमेव काव्यं स्यात् । तथापि यदा यमकादिचि त्रदर्शनप्रधानोऽसौ भवति, तदा 'रसादिहीन' इत्युक्तम् । नियमेन रसभावसन्वितो वक्ता न तु कथञ्चिदपि तटस्थः । रसश्च ध्यन्यात्मभूत एव न तु रसवदलङ्कारप्रायः । तदासमासामध्यसमासे एव संघटने, अन्यथा तु दीर्घसमासापीत्येवं योज्यम् । तेन नियमशब्दस्य द्वयोश्चैवकारयोः पौनरुक्त्यमनाशङ्कयम् । कथमिति चेदिति । किं धर्मसूत्रकार वचनमेतदिति भावः । उच्यत इति । न्यायोपपत्त्येत्यर्थः । तत्प्रतीता- विति । तदास्वादे ये व्यवधायका अस्वादविघ्नरूपाविरोधिनश्च तद्विपरीतास्वादमया इत्यर्थः। सम्भावनयेति । अनेकप्रकारः सम्भाव्यते सङ्घटनातु सम्भावनायां प्रयोक्त्रीति

बालप्रिया

भाव्यमिति भावः। तावतीति । स्वस्मिन्नित्यर्थः। इत्युक्तमिति । रसभावरहित इत्यनेन नैसर्गिकं तद्राहित्यं विवक्षितमित्यर्थः । शुद्धेति । शुद्धमन्येनासम्मिश्रं यद्व- क्त्रौचित्यन्तदित्यर्थः । यदा तु कविरित्यादिना कदाचिद्रसभावरहितत्वं कवेर्भवतीति गम्यते पूर्वमुक्त्तञ्च, तस्यानुपपत्तिमुद्भाव्य परिहरति-कविर्यद्यपीत्यादि । से एवेति । श्लोकोऽयं प्रदर्शयिष्यते । तदा नियमेनैव समासे एव' इत्यत्र नियमेनेति पदमेवकारद्वयञ्च यथायथं योजयस्तत्तद्वयवच्छेद्यमर्थञ्च दर्शयन्विवृणोति-नियमे नेत्यादि । तेनेति । उक्तेन योजनेनेत्यर्थः । कि धर्मत्यादि । धर्मसूत्रकारवचनं हि युक्तिरहितमप्यादरणीयमिति भावः । आस्वादनविघ्नरूपा इति । आस्वादन विघ्नाः संशयादयोऽभिनवभारत्यादौ दर्शिताः। तद्विपरीतेति । प्रधानरसविपरीतेत्यर्थः । सम्भावनयेत्यत्र णिजन्ताष्णिजित्याह-अनेकत्यादि । सम्भाव्यत इति । प्रतिपत्तृ- भिरिति , शेषः । प्रयोक्त्रीति । प्रयोजकत्रीत्यर्थः । वृत्तौ-'विशेषत' इत्यादि । तस्यामित्यादेरनुषङ्गः । अभिनेयार्थे काव्ये तस्यामत्यन्तमभिनिवेशो विशेषतो न