पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२१
तृतोयोद्द्योतः


शोभते । विशेषतोऽभिनेयार्थे काव्ये, ततोऽन्यत्र च विशेषतः करुणविप्र- लम्मशृङ्गारयोः । तयोर्हि सुकुमारतरत्वात्स्वल्पायामप्यस्वच्छतायां शब्दा- र्थयोः प्रतीतिर्मन्थरीभवति । रसान्तरे पुनः प्रतिपाद्ये रौद्रादौ मध्यमस- मासा सङ्घटना कदाचिद्धीरोद्धतनायकसम्बन्धव्यापाराश्रयेण दीर्षसमासापि वा तदाक्षेपाविनामाविरसोचितवाच्यापेक्षया न विगुणा भवतीति सापि नात्यन्तं परिहार्या । सर्वासु च सङ्घटनासु प्रसादाख्यो गुणो व्यापी ।


लोचनम्

द्वौ णिचौ । विशेषतोऽभिनेयार्थेति । अत्रुटितेन व्यङ्गयेन तावत्समासार्थाभिनयो न शक्यः कर्तुम् । काक्कादयोऽन्तरप्रसादगानादयश्च । तत्र दुष्प्रयोजा बहुतरसन्देहप्रसरा च तत्र प्रतिपत्तिर्न नाटवेऽनुरूपा स्यात् । प्रत्यक्षरूपत्वात्तस्या इति भावः। अन्यत्र चेति । अनभिनेयार्थेऽपि । मन्थरीभवतीति। आस्वादो विनितत्वात्प्रतिहन्यत इत्यथः। तस्या दीर्घसमाससङ्घटनायाः य आक्षेपस्तेन विना यो न भवति व्यायाभिव्यञ्जकस्तादृशो रसोचितो रसव्यञ्जकतयोपादीयमानो वाच्यस्तस्य यासावपेक्षा दीर्घसमाससङ्घटना प्रति सा अवैगुण्ये हेतुः। नायकस्याक्षेपो व्यापार इति यद्वयाख्यातं तच्च श्लिष्यतीवेत्यलम् । । या काचित्सङ्घटना सा तथा कर्तव्या, यथा वाच्ये झटिति भवति प्रतीति- रिति यावत् । उक्तमिति । 'समर्पकत्वं काव्यस्य यत्तु इत्यादिना । न व्यनक्ती-

बालप्रिया

शोभत इत्यन्वयः । कुत एतदिति जिज्ञासा परिहर्तुं भावमाह-अत्रुटितेनेत्यादि । तत्रेति प्रतिवाक्यं योज्यं, दीर्घसमासायो सङ्घटनायां सत्यामिति तदर्थः। अत्रु- टितेन व्यङ्गयेन कर्तुं न शक्यः, किन्तु व्यङ्गथार्थत्रोटनं कृत्वैव कर्तव्यो भवेदिति भावः । दोषान्तराण्यप्याह-काक्वादय इत्यादि । अन्तरेति । अन्तरे मध्ये प्रसादार्था ये गानादयस्ते । दुष्प्रयोजाः दुःखेन प्रयोज्याः । तत्र बहुतरसन्देहप्रसरा प्रतिपत्तिश्च स्यात् । सा नाटये न अनुरूपा च इति योजना । अत्र हेतुमाह-प्रत्य- क्षेति । संशयादिविघ्नरहितसाक्षात्काररूपत्वादित्यर्थः । तस्या इति । नाट्यप्रतीतेरि- त्यर्थः । नाटयन्नाम रसचर्वणात्मकप्रतीतिरूपमित्यभिनवभारत्यामुक्तम् । वृत्तौ 'तत्रा- न्यत्र चेति। तस्यामित्यादेरनुषङ्गोऽत्रापि बोध्यः । लोचने भावार्थमाह-आस्वाद इत्यादि । वृत्तौ रसान्तर' इत्यादि । रौद्रादौरसान्तरे पुनः प्रतिपाद्यै मध्यमसमासासङ्घ- टना विगुणा न भवति कदाचिद्दीर्घसमासापि वा सङ्घटना विगुणा न भवतीति सम्ब- न्धः। दीर्घसमासाया अवैगुण्ये हेतुस्तदाक्षेपेत्यादिः । एतं ग्रन्थं व्याचष्टे-तस्या इत्यादि । सङ्घटनाया इति कर्मणि षष्ठी । आक्षेपः स्ववाचकशब्दसमुदाये आकर्षः योजनमिति यावत् । तेनाविनाभावीति वाच्यस्य विशेषणमित्याह-तेने-

 ४१ व