पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१९
तृतीयोद्द्योतः


साङ्गं रसाभासाङ्गं वा, अभिनेयार्थमनभिनेयार्थं वा, उत्तमप्रकृत्याश्रयं तदित.

राश्रयं वेति बहुपकारम् । तत्र यदा कविरपगतरसभावो वक्ता तदा रचनायाः


लोचनम्

ति । ध्वन्यात्मा ध्वनिस्वभावो यो रसस्तस्याङ्गं व्यञ्जकमित्यर्थः । अभिनेयो बागङ्गसत्वाहार्यैराभिमुख्यं साक्षात्कारप्रायं नेयोऽर्थो व्यङ्गयरूपो ध्वनिस्वभावो यस्य तदभिनेयार्थं वाच्यं, स एव हि काव्यार्थं इत्युच्यते । तस्यैव चाभिनयेन योगः। यदाह मुनिः-'वागङ्गसत्त्वोपेतात्काव्यार्थान् भावयन्ति' इत्यादि तत्र तत्र । रसाभिनयनान्तरी. युक्ततया तु तद्विभावादिरूपतया वाच्योऽर्थोऽभिनीयत इति वाच्यमभिनेयार्थमित्येषैव युक्ततरा वाचोयुक्तिः । न त्वत्र व्यपदेशिवद्भावो व्याख्येयः, यथान्यैः । तदितरेति । मध्यमप्र त्याश्रयमधमप्रकृत्याश्रयं चेत्यर्थः । एवं वक्तृभेदान्वाच्यभेदांश्चाभिधाय तद्गतमौचित्यं नियामकमाह-तत्रेति । रचनाया इति सङ्घटनायाः। रसभावहीनो- ऽनाविष्टस्तापसादिरुदासीनोऽपीतिवृत्ताङ्गतया यद्यपि प्रधानर सानुयाय्येव, तथापि तावति

बालप्रिया

त्यादि । सात्वत्यादिवृत्तीना लक्षणान्यन्यत्र द्रष्टव्यानि । 'विकल्पा' इति पदं प्रकृता- नुगुण्येन व्याचष्टे-वक्तुभेदा इति । 'वक्तृवाच्ययोरित्युक्तवक्त्रवान्तर भेदा इत्यर्थः । वाच्यमभिनेयार्थमित्येतद्वयाचष्टे-अभिनेय इत्यादि । वागित्यादि । चतुविधैरित्यर्थः । व्यङ्गयरूप इत्यस्यैव विवरणम्-ध्वनिस्वभाव इति । ध्वन्यात्मेत्यर्थः । उक्तमुप. पादयति-स एवेत्यादि । स एव व्यङ्गय एव । अभिनयेन योगः अभिनेतव्य. त्वम्। वागङ्गेति भावयन्तीत्यन्तं भावा इत्यस्य व्युत्पत्तिकथनम् । इत्यादि तत्र तत्राहेति सम्बन्धः। काव्येनार्थ्यत इति व्युत्पत्या काव्यार्थशब्दो व्यङ्गयरसादिवाचीति भावः । नन्येवं वाच्यार्थाभिनयः किं नास्तीत्यत्राह-रसाभिनयेत्यादि । व्याख्यानमुपसं- हरति-इतीत्यादि । इतीति हेतौ। इत्येषा वाचोयुक्तिरेव युक्ततरेत्यन्वयः । उक्त- व्याख्यैवातिशयेन युक्तेत्यर्थः । न त्वित्यादि । यदि वाच्यस्यैवाभिनेयत्वं, तदा वाच्यमभिनेयार्थमित्यत्र अभिनेयः अर्थों यस्येति विग्रहे यत्पदार्थस्य वाच्यस्य अर्थ पदार्थस्य चैक्यात् 'राहोश्शिर' इत्यादाविव व्यपदेशिवद्भावेन भेदविवक्षया षष्ठीति व्याख्यातव्यं, तन्न कर्तव्यमित्यर्थः । यथान्यैरिति । व्यपदेशिवद्भाव इत्यनुषङ्गः, व्याख्यात इति शेषः। कविनिषद्धो वक्ता रसभावरहित इत्यस्यार्थं प्रदर्श्य तत्रानुप- पत्तिमाशङ्कय परिहरति-रसभावहीन इत्यादि । रसभावहीन इत्यस्य विवरणम्- अनाविष्ट इति । रसाद्यावेशरहित इत्यर्थः । स क इत्यत्राह-तापसादिरित्यादि । अपीति समुच्चये । प्रधानरसानुयाय्येवेति । तथाच तस्य तत्तचित्तवृत्त्यावेशेन


 १. भरतना., ५.१