पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१८
सटीकलोचनोपेतध्वन्यालोके


दर्शितमेवाग्रे। शक्तितिरस्कृतत्वं चान्वयव्यतिरेकाभ्यामवसीयते । तथा हि शक्तिरहितेन कविना एवंविधे विषये शृङ्गार उपनिबध्यमानः स्फुटमेव दोषत्वेन प्रतिभासते । नन्वस्मिन् पक्षे 'यो यः शस्त्रं बिभर्ति' इत्यादौ किम- चारुत्वम् ! अप्रतीयमानमेवारोपयामः । तस्माद्गुणव्यतिरिक्तत्वे गुणरूपत्वे च सङ्घटनाया अन्यः कश्चिन्नियमहेतुर्वक्तव्य इत्युच्यते ।

तन्नियमे हेतुरौचित्यं वक्तृवाच्ययोः ॥ ६॥

 तत्र वक्ता कविः कविनिबद्धो वा, कविनिबद्धश्चापि रसभावरहितो रसभा- वसमन्वितो वा, रसोऽपि कथानायकाश्रयस्तद्विपक्षाश्रयो वा, कथानायकश्च धीरोदात्तादिभेदभिन्नः पूर्वस्तदनन्तरो वेति विकल्पाः । वाच्यं च ध्वन्यात्मर-


लोचनम्

तथात्रापीति भावः । दर्शितमेवेति । कारिकाकारेणेति भूतप्रत्ययः । वक्ष्यते हि- 'अनौचित्यादृते नान्यद्रसभङ्गस्य कारणम्' इत्यादि । अप्रतीयमानमेवेति । पूर्वापर- परामर्शविवेकशालिभिरपीत्यर्थः । गुणव्यतिरिक्तत्व इति । व्यतिरेकपक्षे हि सङ्घ- टनाया नियमहेतुरेव नास्ति ऐक्यपक्षेऽपि न रसो नियमहेतुरित्यन्यो वक्तव्यः ।

 तन्नियम इति कारिकावशेषः । कथां नयति स्वकर्तव्याङ्गभावमिति कथानायको यो निर्वहणे फलभागी । धीरोदात्तादीति । धर्मयुद्धवीरप्रधानो धीरोदात्तः । वीररौ- द्रप्रधानो धीरोद्धतः । वीरश्रृङ्गारप्रधानो धारललितः । दानधर्मवीरशान्तप्रधानो धीरप्र- शान्त इति चत्वारो नायकाः क्रमेण सात्वत्यारभटीकैशिकीभारतीलक्षणवृत्तिप्रधानाः। पूर्वः कथानायकस्तदनन्तर उपनायकः । विकल्पा इति । वक्तृभेदा इत्यर्थः । वाच्यमि-

बालप्रिया

कारिकाकारेणेति । कारिकावचनस्य निष्पन्नत्वात् भूतनिर्देश उपपन्न इति भावः । वक्ष्यते हीति । वृत्तिकारेण चेति शेषः । वृत्तौ नन्वित्यादि । 'अस्मिन् पक्षे इति । सङ्घटनारूपा एव गुणा इति पक्ष इत्यर्थः । 'किमचारुत्वमिति चोद्यम् । तत्रोत्तरम- 'अप्रतीयमानमित्यादि । अचारुत्वमित्यनुषङ्गः । कैरप्रतीयमानमित्यत्राह लोचने-पूर्वं एवोक्तः सङ्घटनाया नियमहेतुः कोऽपि नोक्त इत्यर्थः । न रसो नियमहेतुरिति । लक्ष्येषु व्यभिचारादिति भावः । वृत्तौ इत्युच्यत इति । इत्यतो हेतोनियमहेतुः प्रदर्श्यत इत्यर्थः । कारिकावशेष इति । न तु वृत्तिकृता पूरितमिति भावः । त्यादि । विवृणोति-व्यतिरेकपक्षे होत्यादि। नास्तीति । गुणानां विषयनियम

 कथा नायकादं व्याचष्टे-कथामित्यादि । स्वकर्तव्येति । स्वसाध्येत्यर्थः । स्वपदं फलभागिपरम् । धर्मति । धर्मवीरयुद्धवीरप्रधान इत्यर्थः । धीरोद्धतादीनां क्रमेण रौद्र- श्रृङ्गारशान्तप्राधान्येऽपि तेषूत्साहस्याप्यवश्यम्भावित्वादाह-वीरेत्यादि । सात्वती.