पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१७
तृतीयोद्द्योतः


 तथा हि-महाकवीनामप्युत्तमदेवताविषयप्रसिद्ध संभोगशृङ्गारनिब-

न्धनाधनौचित्यं शक्तितिरस्कृतत्वात् ग्राम्यत्वेन न प्रतिभासते । यथा कुमा-

रसम्भवे देवीसम्भोगवर्णनम् । एवमादौ च विषये यथौचित्यात्यागस्तथा


लोचनम्

रसाभिव्यक्तावेतदेव सामर्थ्यं शब्दानां यत्तथा तथा सधटमानत्वमिति भावः ।

 शक्तिः प्रतिभानं वर्णनीयवस्तुविषयनूतनोल्लेखशालित्वम् । व्युत्पत्तिस्तदुपयोगि- समस्तवस्तुपौर्वापर्यपरामर्शकौशलम् । तस्येति कवेः। अनौचित्यमिति । आ. स्वादयितॄणां यः चमत्काराविघातस्तदेव रससर्वस्वं आस्वादायत्तत्वात् । उत्तमदेव- तासंभोगपरामर्शे च पितृसंभोग इव लज्जातङ्कादिना कश्चमत्कारावकाश इत्यर्थः। शक्ति- तिरस्कृतत्वादिति । संभोगोऽपि ह्यसौ वर्णितस्तथा प्रतिभानवता कविना यथा तत्रैव विश्रान्तं हृदयं पौर्वांपर्य परामर्शं कर्तुं न ददाति यथा निर्व्याजपराक्रमस्य पुरुषस्यावि. षयेऽपि युध्यमानस्य तावत्तस्मिन्नवसरे साधुवादो वितीर्यते न तु पौर्वापर्य परामर्शे

बालप्रिया

न्धः । विषयेति । चक्षुरादीनां विषया रूपादयः गुणानान्तु रसाः । 'दर्शनमिति । मतमित्यर्थः । अथवेत्यादिग्रन्थस्य भावमाह लोचने-रसेत्यादि । तथा तथेति । तत्तासानुगुण्येनेत्यर्थः । इति भाव इति । शब्दगतं माधुर्यादिकं श्रृङ्गारादि तत्तद्रसा. भिव्यञ्जनसामर्थ्यमेव, तच्च तथा तथा सङ्घटनया । अतस्सङ्घटनारूपा एवं गुणा इति भावार्थ इत्यर्थः ।

 वृत्तौ-'यत्त्वि'त्यादि । इति यत्तूक्तमित्यन्वयः । 'यत्र लक्ष्ये' इति । 'अनवरते त्यादौ, 'यो यश्शस्त्रमित्यादौ चेत्यर्थः । 'परिकल्पितेति । 'असमासे'त्याधुक्तविषयस्य व्यभिचार इत्यर्थः । शक्तिव्युत्पत्तिपदे विवृणोति लोचने-शक्तिरित्यादि । तदुपयो. गीति । तस्य वर्णनीयस्य उपयोगीनि यानि वस्तूनि तेषां पौर्वापर्येण यः परामर्श स्तत्र कौशलं सामर्थ्यमित्यर्थः। उत्तमदेवताविषयसम्भोग श्रृङ्गारनिबन्धनस्यानौचित्यं विवृणोति-य इत्यादि । चमत्काराविघातः चमत्कार विघातकाभावः। पितृसम्भोग इति । मातापित्रोस्सम्भोगस्य परामर्शं इत्यर्थः । 'शक्तितिरस्कृतत्वादित्यादिग्रन्थं विव. णोति-सम्भोगोऽपीत्यादि । असाविति । उत्तमदेवताविषय इत्यर्थः । तत्रैव वणिते सम्भोग एव । हृदयं कर्तृ । न ददाति स्वात्मानं, सहृदयस्येति शेषः । यद्वा- स इति शेषः । वर्णितस्सम्भोग इत्यर्थः । हृदयं कर्म । अविषयेऽपीति । बालगुरुजना- दिविषयेऽपीत्यर्थः । तस्मिन्नवसर युद्धकाले । वितार्यते पश्यद्भिः दीयते । वृत्तौ- यथौचित्यात्याग इति । यथा येन प्रकारेण वर्णने । औचित्यात्यागः अनौचित्या भावः । 'दर्शितमिति । विभावभावेत्यादिग्रन्थ जातेन प्रदशितमित्यर्थः । 'अग्रे उ. परि । नन्वेवं दर्शयिष्यत इति वक्तव्यं न तु दर्शितमितीत्यत आह लोचने-