पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१६
सटीकलोचनोपेतध्वन्यालोके


चाचारुत्वं सहृदयहृदयसंवेद्यमस्ति । तस्मादनियतसङ्घटनशब्दाश्रयत्वे गुणानां न काचित्क्षतिः । तेषां तु चक्षुरादीनामिव यथास्वं विषयनियमि- तस्य स्वरूपस्य न कदाचिव्द्ययभिचारः । तस्मादन्ये गुणा अन्या च सङ्घ- टना । न च सङ्घटनामाश्रिता गुणा इत्येकं दर्शनम् । अथवा सञ्चाटना रूपा एव गुणाः।

 यत्तूक्तम्- 'सङ्घटनावद्गुणानामप्यनियतविषयत्वं प्राप्नोति । लक्ष्ये व्यभिचारदर्शनात्' इति । तत्राप्येतदुच्यते-यत्र लक्ष्ये परिकल्पितविषय व्यभिचारस्तद्विरूपमेवास्तु । कथमचारुत्वं तादृशे विषये सहृदयानां नाव भातीति चेत् ! कविशक्तितिरोहितत्वात् । द्विविधो हि दोषः-कवेरव्यु- त्पत्तिकृतोऽशक्तिकृतश्च । तत्राव्युत्पत्तिकृतो दोषः शक्तितिरस्कृतत्वा- त्कदाचिन्न लक्ष्यते । यस्त्वशक्तिकृतो दोषः स झटिति प्रतीयते । परि. करश्लोकश्चात्र-

'अव्युत्पत्तिकृतो दोषः शक्त्या संव्रियते कवेः ।
यस्त्वशक्तिकृतस्तस्य स झटित्यवभासते ॥'


लोचनम्

 वयं तु ब्रूमः-वर्णपदव्यङ्गद्येऽप्योजसि रौद्रादिस्वभावे वर्णपदानामेकाकिना स्वसौ- न्दर्यमपि न ताहगुन्मीलति तावद्यावत्तानि सघटनाङ्कितानि न कृतानीति सामान्य नैवा. यं पूर्वपक्ष इति । प्रकाशयत इति 'लक्षणहेत्वोः इति शतृप्रत्ययः। रौद्रादिप्रकाशनाल. क्ष्यमाणमोज इति भावः। न चेति । चशब्दो हेतौ। यस्मात् 'यो यः शखं' इत्यादी नाचा. रूत्वं प्रतिभाति तस्मादित्यर्थः। तेषान्त्वति गुणानाम् । यथास्वमिति | श्रृङ्गार एव परमो मनःप्रह्लादनो रसः' इत्यादिना च विषय नियम उक्त एव ।अथवेति ।

बालप्रिया

 वर्णत्यादि । ओजसो वर्ण पदव्यङ्ग्यत्वेऽपीत्यर्थः । रौद्रादिस्वभावे रौद्रादिरसधर्मे । तागृक सातिशयम् । तावन्नोन्मीलतीति सम्बन्धः । तानीति । वर्णपदानीत्यर्थः । सङ्घटनाङ्कितानीति । सङ्घटनाविशिष्टानीत्यर्थः । सामान्यनैवेति । वर्णपदवाक्यव्यङ्गयध्वनिसामान्याभिप्रायेणवेत्यर्थः । रोद्रादीति । रौद्रादेः प्रकाशनेन आलक्ष्यमाणमनुमीयमान मित्यर्थः । नाचारुत्वमिति । अचारूत्वं न प्रतिभातीत्यन्वयः । वृत्तौ तेषामिति । गुणानामित्वर्थः । स्वरूपस्यैत्यनेन सम्ब- सा-


 १.पा. सू. ३.२, १२६