पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१५
तृतीयोद्योतः


 अभ्युपगते वा वाक्यव्यङ्गयत्वे रसादीनां न नियता काचित्सङ्घटना तेषामाश्रयत्वं प्रतिपद्यत इत्यनियतसङ्घटनाः शब्दा एवं गुणाना व्यङ्गथ. विशेषानुगता आश्रयाः । ननु माधुर्ये यदि नामैवमुच्यते तदुच्यताम् । ओजसः पुनः कथमनियतसङ्घटनशब्दाश्रयत्वम् । न ह्यसमासा सङ्घटना कदाचिदोजस आश्रयता प्रतिपद्यते । उच्यते-यदि न प्रसिद्धिमात्रग्रहः दूषितं चेतस्तदत्रापि न न ब्रूमः । ओजसः कथमसमासा सङ्घघटना नाश्रयः। यतो रौद्रादीन् हि प्रकाशयतः काव्यस्य दीप्तिरोज इति प्राक्पतिपादितम् । तच्चौजो यद्यसमासायामपि सङ्घटनायां स्यात्तत्को दोषो भवेत् । न


लोचनम्

 ननु वाक्यव्यङ्गये ध्वनौ तर्ह्यवश्यमनुप्रवेष्टव्यं सङ्घटनया स्वसौन्दर्यं वाच्यसौन्दर्यं वा, तया विना कुत इत्याशङ्कयाह-अभ्युपगत इति । वाशब्दोऽपिशब्दार्थ, वाक्य- व्यङ्गयत्वेऽपीत्यत्र योज्यः । एतदुक्तं भवति-अनुप्रविशतु तत्र सङ्घटना, न हि तस्याः सन्निधानं प्रत्याचक्ष्महे । किं तु माधुर्यस्य न नियता सङ्घटना आश्रयो वा स्वरूपं वा तया विना वर्णपदव्यङ्ग्ये रसादौ भावान्माधुर्यादेः वाक्यव्यङ्गयेऽपि तादृशीं सधटनां विहायापि वाक्यस्य तद्रसव्यञ्जकत्वात्सङ्घटना सन्निहितापि रसव्यक्तावप्रयोजिकेति । तस्मादौपचारिकत्वेऽपि शब्दाश्रया एव गुणा इत्युपसंहरति-शब्दा एवेति। नन्विति। वाक्यव्यङ्गयध्वन्यभिप्रायेणेदं मन्तव्यमिति केचित् ।

बालप्रिया

 नन्वित्यादि । सङ्घटनया सङ्घटनाविशेषेण । स्वेति । वाक्यसौन्दर्यमि- त्यर्थः । वृत्तौ 'तेषामिति । गुणानामित्यर्थः । 'व्यायविशेषानुगता' इति । व्यङ्गयविशेषावभासिन इत्यर्थः । 'अभ्युपगत' इत्यादिग्रन्थस्य भावमाह लोचने- एतदित्यादि । माधुर्यस्येति । माधुर्यादेरित्यर्थः । नियता सङ्घटना माधुर्यस्या- श्रयो वा स्वरूपं वा नेत्यन्वयः। अत्र हेतुमाह-तयेत्यादि। भावान्माधुर्यादे- रिति । माधुर्यादेस्सत्वादित्यर्थः । भावादित्यन्तेन व्यभिचारः प्रदर्शितः । अत एवाह-वाक्येत्यादि । रसादावित्यनुषः । सङ्घटनां विहायापि सङ्घटनायास्स. हकारित्वमन्तरेणापि । तद्रसव्यञ्जकत्वात् तत्तद्रसव्यञ्जकत्वसम्भवात् । अप्रयो- जिका अनुपयोगिनो । वृत्तौ 'नन्वि-त्यादि । 'एवमिति । अनियत सङ्घटनशब्दाश्रय- त्वमित्यर्थः । 'तत्तदा उच्यतां तथा उच्यताम् । 'पुनरिति विशेषे । 'अत्रापि न न ब्रूम' इति । अस्मिश्चोद्येऽपि उत्तर ब्रूम एवेत्यर्थः । लोचने-वाक्यव्यङ्गयेत्या- दि ।इदमिति । चोद्यमित्यर्थः । मन्तव्यमिति । वाक्य एव सङ्घटनायास्सम्भवा- दिति भावः ।