पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१४
सटीकलोचनोपेतध्वन्यालोके


नामवाचकरवादाश्रया भवन्ति । नैवम् ; वर्णपदव्ययस्वस्य रसादीनां प्रतिपादितत्वात् ।


लोचनम्

शब्दाः, तदाश्रितं तत्सामर्थ्यमिति सङ्घटनाश्रितमेवेत्युक्तं भवतीति तात्पर्यम् ! मुख्यतया तन्निष्ठानो गुणानामसङ्घटिताः शब्दा आश्रया न

 ननु शब्दधर्मत्वं शब्दैकात्मकत्वं वा तावतास्तु, किमयं मध्ये सङ्घटनानुप्रवेश इत्याशङ्कय स एव पूर्वपक्षवाद्याह-न हीति । अर्थविशेषेने तु पदान्तरनिरपेक्षशु- द्धपदवाच्यः सामान्यैः प्रतिपाद्या व्यङ्गा ये रसभावतदाभासतप्रशमास्तदाश्रितानां भावः । अत्र हेतुः-अवाचकत्वादिति । न ह्यसङ्घटिता: व्यङ्गयोपयोगिनिराका- ङ्क्षरूपं वाच्यमाहुरित्यर्थः । एतत्परिहरति-नैवमिति । वर्णव्यङ्गयो हि यावद्रस उक्तस्तावदवाचकस्यापि पदस्य श्रवणमात्रावसेयेन स्वसौभाग्येन वर्णवदेव यद्रसाभिव्य- क्तिहेतुत्वं स्फुटमेव लभ्यत इति तदेव माधुर्यादीति किंसङ्घटनया? तथा च पदन्यङ्गयो यावद्ध्वनिरूक्तस्तावच्छुद्धस्यापि पदस्य स्वार्थस्मारकत्वेनापि रसाभिव्यक्तियोग्यार्थाव- भवन्त्युपचारेणापोति नासकत्वमेव माधुर्यादीति तत्रापि कः सङ्घटनाया उपयोगः ।

बालप्रिया

वक्ष्यमाणमित्यर्थः ।इत्यर्थः। ततः किमत आह-अथेत्यादि । अथ अथ च । न व्यतिरिक्ता न बच्चेत्य:। विशिति । विशिश या शब्दान्तरसङ्घटना तथैव लभ्यत तश्च शब्दगतमिति । उकसामर्थ्यरूपं शब्दाश्रितं साम- सङ्घटनाश्रितमिति । सङ्घटनारूपत्वमप्युत्तरीत्या बोध्यम् । शब्दाद्भिना । तदाश्रित सद्घटितशब्दाधितम् । तत् पूर्वोक्तम् । इतीति हेतौ।

 नन्विति गुणानामिति शेषः । तावतेति । उपचारेणेत्यर्थः । स वाहत्यनेन "तञ्च शब्दगत विशिष्टघटनयवेति प्रन्येनायमर्थः स्वयं प्रदर्शित इति प्रकाश्यते । मर्थविशेषैरिति । परस्परसाकाझक्षपदसमुदाय प्रतिपाद्यैर्विभावादिरूपैरित्यर्थः । अनेन लब्ध व्यावर्त्यमाह-न त्वित्यादि । सामान्यैरिति । सामान्यरूपा अर्थाः पदवाच्या इत्युक्तं प्राक् । अवाचकत्वादित्यस्याननुभाववादित्यर्थमभिप्रेत्य व्याचष्टे-न हीत्यादि । विवृणोति-वर्णव्यङ्गयो हीत्यादि । यावत् यतः । उक्त: 'यस्त्वलक्ष्यक्रमव्यङ्गय' शब्दा इति शेषः। वाच्यमाहुः वाक्यार्थमनुभावयन्ति । वर्णेत्यादिग्रन्तस्य भावं वर्णसमुदायरूपस्य । वर्णवत् वर्णस्येव । स्फुटमेव लभ्यत इति । कैमुस्यन्यायेनेति इत्यादिना प्रदर्शितः । तावत् ततः । अवाचकस्यापि स्वार्थास्मारकस्यापि। पदरय भावः। तथाचेति । स्वार्थास्मारकस्यापि पदस्य रसाभिव्यक्तिहेतुत्वे सिद्ध चेत्यर्थः । शुद्धस्यापीति । असङ्घटितस्यापीत्यर्थः ।