पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१३
तृतीयोद्योतः


तमर्थमवलम्बन्ते येऽङ्गिनं ते गुणाः स्मृताः ।
अङ्गाश्रितास्त्वलङ्कारा मन्तव्याः कटकादिवत् ।। इति ।

 अथवा भवन्तु शब्दाश्रया एवं गुणाः,न चैषामनुप्रासादितुल्य- त्वम् । यस्मादनुप्रासादयोऽनपेक्षितार्थशब्दधर्मा एवं प्रतिपादिताः । गुणास्तु व्यङ्ग्यविशेषावभासिवाच्यप्रतिपादनसमर्थशब्दधर्मा एव । शब्दधर्मत्वं चैषामन्याश्रयत्वेऽपि शरीराश्रयत्वमिव शौर्यादीनाम् ।

 ननु यदि शब्दाश्रया गुणास्तत्सङ्घटनारूपत्वं तदाश्रयत्वं वा तेषां प्राप्तमेव । न ह्यसङ्घटिताः शब्दा अर्थविशेषप्रतिपाद्यरसाद्याश्रितानां गुणा-


लोचनम्

अथवेति। न ह्येकाश्रितत्वादेवैक्य, रूपस्य संयोगस्य चैक्यप्रसङ्गात् । संयोगे द्वितीयम- पेक्ष्यमिति चेत्-इहापि व्यङ्गयोपकारकवाच्यापेक्षास्त्येवेति समानम् । न चायं मम स्थितः पक्षः, अपि तु भवत्वेषामविवेकिनामभिप्रायेणापि शब्दधर्मत्वं शौर्यादीनामिव शरीरधर्मत्वम् । अविवेकी हि औपचारिकत्वविभागं विवेक्त्तुमसमर्थः । तथापि न कश्चिद्दोष इत्येवम्परमेतदुक्तमित्येतदाह-शब्दधर्मत्वमिति । अन्याश्रयत्वेऽ. पीति । आत्मनिष्ठत्वेऽपीत्यर्थः ।

 शब्दाश्रया इति । उपचारेण यदि शब्देषु गुणास्तदेदं तात्पर्यम्-शृङ्गारादिर- साभिव्यञ्जकवाच्यप्रतिपादनसामर्थ्यमेव शब्दस्य माधुर्यम् । तच्च शब्दगतै विशिष्ट- घटनयैव लभ्यते । अथ सङ्घटना न व्यतिरिक्ता काचित् , अपि तु सङ्घटिता एव

बालप्रिया

लङ्कारयोरिति यावत् । ऐक्यप्रसङ्गादिति । घटायेकद्रव्याद्याश्रितत्वादिति भावः। ऐक्यप्रसङ्गं परिहरति-संयोग इत्यादि। द्वितीयमपेक्ष्यमिति । संयोगरूपकार्यस्य द्वयोरुत्पत्या स्वस्मिन् यस्य संयोगो जायते तं प्रति तस्यापेक्षास्तीत्यर्थः । रूपस्य त्वेकस्मिन्नेवोत्पत्त्या न द्वितीयापेक्षेति भावः। परिहारप्रकारस्तुल्य इत्याह-'इहे'त्यादि। इहापि गुणेष्वपि । व्यङ्गयेति। अनेन 'गुणास्तु व्यङ्गाथेत्यादिप्रन्थो विवृतः। शब्दध. र्मत्वञ्चेत्यादिग्रन्थमवतारयति-न चेत्यादि । अयं स्थितः मम पक्षो नेति योजना। एषामिति । गुणानामित्यर्थः । शब्दधर्मत्वं भवत्विति सम्बन्धः। औपचारिकत्व- विभागमिति । औपचारिकत्वस्य मुख्यत्वाद्भेदमित्यर्थः । विवेक्तुं ज्ञातुम् । एतदुक्तमथवेत्याद्युक्तम् । इत्येतदिति । उक्तमित्यर्थः । आत्मनिष्ठत्वेऽपीति । आत्मपदेन रसः जीवात्मा च ग्राह्यः ।

 'यदि शब्दाश्रया' इत्यादि प्राप्तमेवेत्यन्तग्रन्थस्य तात्पर्य माह-उपचारेणे- त्यादि । 'गुणा' इत्यन्तस्य विवरणम्-उपचारेणेत्यादि । इदमिति । अनुपदं

 ४० ध्व०