पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१२
सटीकलोचनोपेतध्वन्यालोके


व्यवस्थितः, सङ्घटनायास्तु स विघटते । तथा हि शृङ्गारेऽपि दीर्घसमासा दृश्यते रौद्रादिष्वसमासा चेति ।

 तत्र शृङ्गारे दीर्घसमासा यथा- 'मन्दारकुसुमरेणुपिञ्जरितालका'

इति । यथा वा-

अनवरतनयनजललवनिपतनपरिमुषितपत्त्रलेखं ते ।
करतलनिषण्णमबले वदनमिदं कं न तापयति ।।

 इत्यादौ । तथा रौद्रादिष्वप्यसमासा दृश्यते । यथा-'यो यः शस्त्रं बिभर्ति स्वभुजगुरुमदः' इत्यादौ । तस्मान्न सङ्घटनास्वरूपाः, न च सङ्घटना. श्रया गुणाः।

 ननु यदि सङ्घटना गुणानां नाश्रयस्तकिमालम्बना एते परिकल्प्य- न्ताम् । उच्यते-प्रतिपादितमेवैषामालम्बनम् ।


लोचनम्

इति । योऽयं गुणेषु नियम उक्तोऽसाविर्थः । तथात्वे लक्ष्यदर्शनमेव हेतुत्वेनाह- तथा हीति।

 दृश्यत इत्युक्तं दर्शनस्थानमुदाहरणमासूत्रयति-तत्रेति ।नात्र श्रृङ्गारः कश्चिदित्याशङ्कया द्वितीयमुदाहरणमाह-यथा वेति । एषा हि प्रणयकुपितनायिका- प्रसादनायोक्तिर्नायकस्येति । तस्मादिति । नैतद्व्याख्यानद्वयं कारिकायां युक्तमिति यावत् । किमालम्बना इति । शब्दार्थालम्बनत्वे हि तदलङ्कारेभ्यः को विशेष इत्युक्तं चिरन्तनैरिति भावः । प्रतिपादितमेवेति । अस्मन्मूलग्रन्थकृतेत्यर्थः ।

बालप्रिया

स विघटत इत्यत्र तत्पदं व्याचष्टे-योऽयमित्यादि । नियम उक्त इति । शृङ्गारादा. वसमासैव सङ्घटना, रौद्रादौ दीर्घसमासैवेति नियम इति भावः । विघटत इत्यस्य व्यभिचरतीत्यर्थः । तथात्व इति । नियमविघटन इत्यर्थः । आसूत्रयति प्रदर्शय. ति । उदाहरणान्तरमवतारयति-नात्रेत्यादि । अनुभावादेरप्रतीत्येति भावः ।

 अनवरतेति । अनवरतं यन्नयनजललवनिपतनं तेन परिमुषिता अपहृता पत्र- लेखा यस्मिंस्तत् । ते तव । इदं वदनमिति सम्बन्धः ।भावमाह- नैतदित्यादि । 'किमालम्बनेति चोद्याशयमाह-शब्देत्यादि । गुणानामिति शेषः। को विशेष इति । विशेषो न भवेदित्यर्थः । मूलग्रन्थेति । कारिकेत्यर्थः । न चैषामित्यादिग्र. न्थस्य तात्पर्यं विवृणोति-न हीत्यादि । ऐक्यमिति । वस्तुनोरिति शेषः । गुणा-