पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३११
तृतीयोद्योतः


टना रसादीन् व्यनक्तीत्ययमर्थः। यदा तु नानात्वपक्षे गुणाश्रयसङ्घटनापक्षः तदा गुणानाश्रित्य तिष्ठन्ती गुणपरतन्त्रस्वभावा न तु गुणरूपैवेत्यर्थः । किं पुनरेवं विकल्पनस्य प्रयोजनमिति ?

 अभिधीयते--यदि गुणाः सङ्घटना चेत्येकं तत्त्वं सङ्घटनाश्रया वा गुणाः, तदा सङ्घटनाया इव गुणानामनियतविषयत्वप्रसङ्गः । गुणानां हि माधुर्यप्रसादप्रकर्षः करुणविप्रलम्भशृङ्गारविषय एव । रौद्राद्भुतादिवि. षयमोजः । माधुर्यप्रसादौ रसभावतदाभासविषयावेवेति विषयनियमो


लोचनम्

प्रसिद्धो मार्गः । गुणपरतन्त्रेति । अत्र नाधाराधेयभाव आश्रयार्थः । न हि गुणेषु सङ्घटना तिष्ठतीति । तेन राजाश्रयः प्रकृतिवर्ग इत्यत्र यथा राजाश्रयौचित्येनामात्या- दिप्रकृतय इत्ययमर्थः, एवं गुणेषु परतन्त्रस्वभावा तदायत्ता तन्मुखप्रेक्षिणी सङ्घटने- त्ययमर्थो लभ्यत इति भावः । सङ्घटनाया इवेति । प्रथमपक्षे तादात्म्येन समान- योगक्षेमत्वादितरत्र तु धर्मत्वेनेति भावः। भवत्वनियतविषयतेत्याशङ्कयाह-गुणानां हीति । हिशब्दस्तुशब्दार्थे । न त्वेवमुपपद्यते, आपद्यते तु न्यायबलादित्यर्थः । स

बालप्रिया

दृश्यत इत्यनेन सम्बन्धः, वृक्षत्वशिंशपयोरैक्येऽपि भेदकल्पनया शिंशपाया वृक्षत्वाश्र- यत्वकथनं यथा, तथा प्रकृतेऽपीति भावः। आधेयभूतानित्यत्रोपष्टम्भकमाह-सङ्घ- टनाया इत्यादि । गुणपरतन्त्रस्वभावेति व्याख्याने बीजमाह-अत्रेत्यादि । आश्र- यार्थः आश्रयशब्दार्थः । नेत्यत्र हेतुमाह-न हीत्यादि । तेनेति । आश्रयपदमु. ख्यार्थस्य बाधेनेत्यर्थः । लभ्यत इत्यनेनास्य सम्बन्धः । राजाश्रयौचित्येनेति । राजाश्रयशब्दार्थस्यान्वययोग्यत्वायेत्यर्थः। फलरूप हेतौ तृतीया । अस्यानन्तरं "राज. परतन्त्रा अमात्यादिप्रकृतय" इति पठनीयं, राजपरतन्त्रा इति पाठाभावे तत्पदमध्या- हार्यम् । एवमिति । तथेत्यर्थः । गुणेषु परतन्त्रेत्यादेरेव विवरणम्-तदायत्तेति । वृत्तौ 'किमित्यादि चोद्यम् । 'अभिधीयत' इत्याद्युत्तरम् । 'एकं तत्वमिति । एकः पदार्थं इत्यर्थः । सङ्घटनाया इवेत्यादिग्रन्थस्य भावमाह लोचने-प्रथमपक्ष इत्यादि । प्रथमपक्षे एक तत्वमिति पक्षे । गुणसङ्घटनयोरिति शेषः । समानयोगक्षेम- त्वात् तुल्यस्वभावत्वात् । इतरत्र सङ्घटनाश्रया गुणा इति पक्षे । धर्मत्वेन सङ्घटनाधर्मत्वेन । तुल्ययोगक्षेमत्वादित्यनुषङ्गः । अनियतविषयत्वप्रसङ्ग इत्येतद्वि- वृणोति-न त्वेवमित्यादि । एवमिति । अनियतविषयत्वमित्यर्थः । न तु उपप- द्यत इति । गुणानां नियतविषयत्वस्य व्यवस्थितत्वादिति भावः । आपद्यते प्रसज्य- ते। इत्याशङ्कयाहेति । इतीष्टापत्तिं वारयतीत्यर्थः । तुशब्दार्थ अवधारणार्थे ।