पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१०
सटीकलोचनोपेतध्वन्यालोके


तां केवलमन्द्येदमुच्यते-

 गुणानाश्रित्य तिष्ठन्ती माधुर्यादीव्यनक्ति सा। रसान्-

 सा सङ्घटना रसादीन् व्यनक्ति गुणानाश्रित्य तिष्ठन्तीति । अत्र च विकल्प्यं गुणानां सङ्घटनायाश्चैक्यं व्यतिरेको वा । व्यतिरेकेऽपि द्वयी गतिः । गुणाश्रया सङ्घटना, सङ्घटनाश्रया वा गुणा इति । तत्रैक्यपक्षे सङ्घटनाश्रयगुणपक्षे च गुणानात्मभूतानाधेयभूतान्वाश्रित्य तिष्ठन्ती सङ्घ-


लोचनम्

निति कारिकायां द्वितीयार्धस्याद्यं पदम् । 'रसास्तन्नियमे हेतुरौचित्यं वक्तृवाच्ययोः' इति कारिकार्धम् । बहुवचनेनाद्यर्थः सगृहीत इति दर्शयति-रसादीनिति । अत्र चेति । अस्मिन्नेव कारिकार्धे । विकल्पेनेदमर्थजातं कल्पयितुं व्याख्यातुं शक्यम् किं तदित्याह-गुणानामिति । त्रयः पक्षा ये सम्भाव्यन्ते ते व्याख्यातुं शक्याः । कथमित्याह-तत्रैक्यपक्ष इति । आत्मभूतानिति ।स्वभावस्य कल्पनया प्रतिपादनार्थं प्रदर्शितभेदस्य स्वाश्रय वाचोयुक्तिर्दृश्यते शिशपाश्रयं वृक्षत्वमिति । आ- धेयभूतानिति । सङ्घटनाया धर्मा गुणा इतिभट्टोद्धटादयः, धर्माश्च धर्म्याश्रिता इति

बालप्रिया

नायामित्यत्र सप्तमीत्यर्थः । कुत्रोक्तमित्यत आह-कारिकायामिति । सङ्घटनो. दितेत्यत्र कर्तृपदं पूरयति वृत्ती- 'कैश्चिदिति । तामित्याद्यवतारिका। 'रसानिम्त्यन्तः कारिकापाठ इति दर्शयति लोचने-रसानित्यादि । रसादीनित्यर्थः । कथं लब्ध इत्यत आह-वह्नित्यादि । बहुवचनेन रसानिति बहुवचनेन । अत्रेत्यस्य व्या- ख्यानम्-अस्मिन्नित्यादि । 'विकल्प्यमित्येतत्प्रकृतानुरोधेन व्याचष्टे-विकल्पे- नेत्यादि । इदं वक्ष्यमाणम् । शक्यमिति । विकल्प्यमित्यस्य विकल्पेन कल्प्य मिति विग्रह इति भावः । भावमाह-त्रय इत्यादि । वृत्ती-व्यतिरेको वेति । भेदो वेत्य- थः । 'द्वयी गतिरिति । द्वैविध्यमित्यर्थः । कथं द्वैविध्यमित्यत्राह-'गुणाश्रये त्या दि । सप्तम्यन्तपक्षपदयोरर्थ इत्यनेन सम्बन्धः । 'आत्मभूतानिति । स्वाभिन्नानि- त्यर्थः । 'आधेयभूतानि ति । स्वनिष्ठानित्यर्थः । 'इत्ययमर्थः इति । कारिकाया इति शेषः । गुणसङ्घटनयोरैक्यपक्षे "गुणानाश्रित्य तिष्ठन्तीत्याधाराधेयभावेन निर्देश- स्योपपत्तिन्दर्शयति लोचने-स्वभावस्येत्यादि । स्वभावस्य प्रतिपादनाथं वस्तु- स्वभावं प्रतिपादयितुम् । कल्पनया प्रदर्शितो भेदो यत्र तस्य । स्वाभिन्नस्यापि वस्तु- नस्स्वस्माद्भेदं परिकल्प्येत्यर्थः । स्वाश्रयेति । स्वाश्रयत्वेन कथनमित्यर्थः ।जा तिव्यक्त्योरैक्यमतानुरोधेन दृष्टान्तमाह- -शिंशपेत्यादि । इतीति । इत्यादीत्यर्थः ।