पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०९
तृतीयोद्द्योतः


कः। अत्र हि रूपकेण यथोक्तव्यञ्जकलक्षणानुगतेन प्रसाधितो रसः सुतरामभिव्यज्यते।

 अलक्ष्यक्रमव्यङ्ग्यः सङ्घटनायां भासते ध्वनिरित्युक्तं तत्र सङ्घटना- स्वरूपमेव तावन्निरूप्यते-

असमासा समासेन मध्यमेन च भूषिता ।
तथा दीर्घसमासेति त्रिधा सङ्घटनोदिता ॥ ५ ॥
कैश्चित् ।


लोचनम्

 रूपकेणेति । स्मर एव नवनदीपूरः प्रावृषेण्यप्रवाहः सरभसमेव प्रवृद्धत्वात् तेनोढाः परस्परसांमुख्यमबुद्धिपूर्वमेव नीताः । अनन्तरं गुरवः श्वश्रूप्रभृतय एव सेतवः, इच्छाप्रसररोधकत्वात् । अथ च गुरवोऽलङ्ध्याः सेतवस्तैः विधृताः प्रतिह- तेच्छाः । अत एवापूर्णमनोरथास्तिष्ठन्ति । तथापि परस्परोन्मुखतालक्षणेनान्योन्यता. दात्म्येन स्वदेहे सकलवृत्तिनिरोधाल्लिखितप्रायैरङ्गैर्नयनान्येव नलिनीनालानि तैरानीतं रसं परस्पराभिलाषलक्षणमास्वादयन्ति परस्पराभिलाषात्मकदृष्टिच्छटामिश्रीकारयुक्त्या. पि कालमतिवाहयन्तीति । ननु नात्र रूपकं निर्यूढं हंसचक्रवाकादिरूपेण नायकयुग- लस्यारूपितत्वात् । ते हि हंसाया एकनलिनीनालानीतसलिलपानक्रीडादिषूचिता इत्याशक्याह-यथोक्तव्यञ्जकेति । उक्तं हि पूर्वम्-'विवक्षातत्परत्वेन' इत्यादौ 'नातिनिर्वहणैषिता' इति । प्रसाधित इति । विभावादिभूषणद्वारेण रसोऽपि प्रसा- धित इत्यर्थः ॥ ३, ४ ॥

 सङ्घटनायामिति भावे प्रत्ययः, वर्णादिवञ्च निमित्तमात्रे सप्तमी । उक्तमिति । कारिकायाम् । निरूप्यत इति । गुणेभ्यो विविक्ततया विचार्यत इति यावत् । रसा.

बालप्रिया

विवक्षितमित्याह-अथ चेत्यादि । तदपीत्यस्य विवरणम्-तथापीति ।पर- स्परमुन्मुखा इत्येतल्लिखितप्रख्यैरित्यस्योपपादकमित्याह-परस्परेत्यादि । गम्यं साधर्म्यं दर्शयति-स्वदेह इत्यादि। वृत्तीति । चेष्टेत्यर्थः। अङ्गैर्रित्युपलक्षणे तृतीया । रसमित्यादि । परस्पराभिलाषरूपं जलमित्यर्थः । तात्पर्यमाह-परस्प- रेति । परस्पराभिलाषात्मकानां परस्पराभिलाषं प्रकाशयन्तीनां दृष्टिच्छटानां यो मि. श्रीकारस्तस्य युक्त्या योजनयेत्यर्थः । प्रिया इत्यत्र हसचक्रवाकेत्यत्राप्येकशेषो बोध्यः । मरूपितत्यादिति । अरूपणादित्यर्थः । तथा रूपणे युक्तिमाह-ते हीत्यादि । नन्वत्र कथं रूपकेण रसस्यालङ्कृतत्वमित्यत आह- -विभावादीत्यादि ॥ ३,४ ॥

 भावे प्रत्यय इति । भावरूपार्थे युच् प्रत्यय इत्यर्थः । सप्ततमीति । सङ्घट-

.