पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०७
तृतीयोद्द्योतः


तिष्ठेत्युक्तं किमिव न तया यत्समुत्सृज्य बाष्पं
मख्यासक्तश्चकितहरिणीहारिनेत्रत्रिभागः ॥

इत्यत्र त्रिभागशब्दः ।

 वाक्यरूपश्चालक्ष्यक्रमव्यङ्गयो ध्वनिः शुद्धाऽलङ्कारसङ्कीर्णश्चेति द्विधा मतः । तत्र शुद्धस्योदाहरणं यथा रामाभ्युदये-'कृतककुपितैः' इत्यादि


लोचनम्

 त्रिभागशब्द इति । गुरुजनमवीर्यापि सा मां यथा तथापि साभिलाषमन्युदै- न्यगर्वमन्थरं विलोकितवतीत्येवं स्मरणेन परस्परहेतुकत्वप्राणप्रवासविप्रलम्भोद्दीपनं त्रिभागशब्दसन्निधौ स्फुटं भातीति । वाक्यरूपश्चेति । प्रथमानिर्देशेनाव्यतिरेकनि- र्देशस्यायमभिप्रायः । वर्णपदतद्भागादिषु सत्स्वेवालक्ष्यक्रमो व्यङ्गयो निर्भासमानोऽपि समस्तकाव्यव्यापक एव निर्भासते, विभावादिसंयोगप्राणत्वात् । तेन वर्णादीनां निमि- तत्वमात्रमेव, वाक्यं तु ध्वनेरलक्ष्यक्रमस्य न निमित्ततामात्रेण वर्णादिवदुपकारि, किंतु समाविभावादिप्रतिपत्तिव्यापृतत्वासादिमयमेव तन्निर्भासत इति 'वाक्य' इत्येतत्का.

बालप्रिया

पदस्यैवात्र प्राधान्यमिति भावः । वृत्तौ 'झटिति कनकेत्यायुदाहरणान्तरं प्रक्षिप्तमत एव न विवृतं लोचने ।

 प्रवासोद्यतमात्मानं गुरुजनसन्निधाने दृष्टवत्याः प्रियाया दर्शनप्रकार कश्चित् स्वयं परामृशति ; यद्वा-स्निग्धं प्रति कथयति-व्रीडायोगादिति । गुरूणां पित्रादीनाम् । कुचकलशयोः बद्धः कृत उत्कम्पः येन तम् । मन्यु प्रवासनिरोधेऽपि तदुद्यमाज्जातं कोपम् । त्वं तिष्ठेति मां प्रति न उक्तं किमिव, उक्तमेव । यद्यतः तया बाष्पं समु- स्सृज्य चकितहरिणीव चकितहरिणीनेत्रमिव हारि, यद्वा-चकितहरिण्या हारि यन्नेत्रं तस्य त्रिभागः तृतीयो भागः । चकितहरिणीहारीति भिन्न पदमासजनक्रियावि- शेषणमिति वा । मयि आसक्त आसजिन इत्यन्वयः । त्रिभागशब्दस्य व्यञ्ज- कत्वं विवृणोति-गुरुजनमित्यादि । साभिलाषेति । अभिलाषादयो भावा नेत्रे प्रका- शिता इति भावः । स्मरणेनेति । स्मरणमात्रगभ्यम् । परस्परहेतुकत्वेति । परस्परास्थाबन्धहेतुकत्वेत्यर्थः । प्रथमेति । वाक्यरूपो ध्वनिरिति प्रथमान्तनिर्दे- शेनेत्यर्थः । भव्यतिरेकनिर्देशस्य अभेदबोधनस्य । अयं वाक्यन्त्वित्यादिना वक्ष्यमाणः । सत्स्वेव निर्भासमानोऽपीति सम्बन्धः । यद्यपि वर्णपदादिप्रयुक्तमेव निर्भा- सनन्तथापीत्यर्थः । तेनेति । विभावादिसंयोगप्राणत्वेन निर्भासनादित्यर्थः । वर्णादिव- दिति वैधर्म्येण दृष्टान्तः । समग्रेति । समप्रविभावादिप्रतिपादकत्वादित्यर्थः।तत् वाक्यम् । इतीति हेतौ । वाक्य इत्यादि । कारिकास्थं वाक्ये इत्येतदित्यर्थः ।