पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०६
सटीकलोचनोपेतध्वन्यालोके


लोचनम्

तदुभयमनुत्थानोपहतम् । यत्र ह्यनूद्दिश्यमानधर्मान्तरसाहित्ययोग्यधर्मयोगित्वं वस्तु- नो यच्छब्देनाभिधाय तबुद्धिस्थधर्मान्तरसाहित्यं तच्छब्देन निर्वाच्यते । यत्रोच्यते- 'यत्तदोर्नित्यसम्बन्धत्वं इति, तत्र पूर्वप्रक्रान्तपरामर्शकतत्वं तच्छब्दस्य । यत्र पुनर्नि- मित्तोपनतस्मरणविशेषाकारसूचकत्वं तच्छब्दस्य ‘स घट’ इत्यादौ यथा, तत्र का परा- मर्शकत्वकथेत्यास्तामलीकपरामर्शकैः पण्डितम्मन्यैः सह विवादेन ।

 उत्कम्पिनीत्यादिना तदीयभयानुभावोत्प्रेक्षणम् । मयाऽनिर्वाहितप्रतीकारमिति शोकावेशस्य विभावः । ते इति सातिशयविभ्रमैकायतनरूपे अपि लोचने विधुरे कान्दिशीकतया निर्लक्षे क्षिपन्ती कस्नाता क्वासावार्यपुत्र इति तयोर्लोचनयोस्तादृशी चावस्थेति सुतरां शोकोद्दीपनम् । क्रूरेणेति । तस्यायं स्वभाव एव । किं कुरुतां तथापि च धूमेनान्धीकृतो द्रष्टुमसमर्थ इति न तु सविवेकस्येशानुचितकारित्वं सम्भाव्यते, इति स्मर्यमाणं तदीयं सौन्दर्यमिदानीं सातिशयशोकावेशविभावतां प्राप्तमिति । ते शब्दे सति सर्वोऽयमर्थो निर्व्यूढः । एवं तत्र तत्र व्याख्यातव्यम् ।

बालप्रिया

परामर्शकर्ता । यत्र हीत्यादि । यत्र यो विद्वान् स पूज्य इत्यादौ । अनूद्दिश्य- मानेति अनूदेक्ष्यमाणेति च पाठः । तथाविधं यद्धर्मान्तरं पूज्यत्वादिकं तत्सा- हित्यस्य योग्यः प्रयोजको यो धर्मो विद्वत्त्वादिः तद्योगित्वं तत्सम्बन्ध इत्यर्थः । यच्छब्देन यच्छब्दघटितवाक्येन । तदिति । तद्बुद्धिस्थञ्च यद्धर्मान्तरं विद्व- त्त्वादिकं तस्य साहित्य सम्बन्ध इत्यर्थः । निर्वाच्यते बोध्यते । तत्र पूर्वप्र- क्रान्तपरामर्शकत्वमिति सम्बन्धः । मध्ये संवादकथनम्-यत्रोच्यत इत्यादि । तत्रेति । यो विद्वान् स पूज्य इत्यादावित्यर्थः । पूर्वति । पूर्वोक्तविद्वत्त्वादिधर्मविशष्टो- पस्थापकत्वरूपं पूर्वपक्रान्तपरामर्शकत्वमित्यर्थः । इदमुपलक्षणं 'तदन्वये शुद्धिमती' त्यादावपि तद्बोध्यम् । यत्रेति । 'ते लोचने' इत्यादावित्यर्थः । स इत्यादिदृष्टान्तकथ- नम् । का परामर्शकत्वकथेति । पूर्वप्रकान्तपरामर्शकत्वप्रसङ्ग एव नास्तीत्यर्थः

 उत्कम्पिनीत्यादिनेति । तदुक्त्या गम्यमिति भावः। तदीयेति । तदी- यानां वासवदत्तासम्बन्धिनां भयानुभावानामुत्कम्पादीनामुत्प्रेक्षणमनुमानमित्यर्थः । 'विभाव' इत्यनेनास्य सम्बन्धः । शोकावेशप्रकारकथनम्-मयेत्यादि । अनिर्वाहितः अकृतः प्रतीकारो यस्य तत् । भयमिति शेषः । इति इतिमत्या । विभावः उद्दीप- नम् । तच्छन्दद्योत्यार्थकथनं सातिशयेत्यादि । कान्दिशीकतया भयातिशयेन । इति इति बुद्ध्या । क्षिपन्तीति सम्बन्धः । क्रूरेणेति तीक्ष्णेनेति च पाठः । तस्यायं स्वभाव इति । दाहकत्वादिः क्रूरस्वभाव इत्यर्थः । क्रूरत्वेऽपि न तन्मात्रेण दग्धा, किन्तु हेत्वन्तरेणापीत्याह-तथेत्यादि । धूमान्धितेनेति दहनस्य विशेषणं, तच्च हेतुगर्भमिति भावः । उपसंहरति-इतीत्यादि । ते शब्दे सतीत्यादि । ते इति ।