पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०५
तृतीयोद्द्योतः


 अत्र हि ते इत्येतत्पदं रसमयत्वेन स्फुटमेवावभासते सहृदयानाम् ।

पदावयचेन द्योतनं यथा-

व्रीडायोगान्नतवदनया सन्निधाने गुरूणां
बद्धोत्कम्पं कुचकलशयोर्मन्युमन्तर्निगृह्य ।


लोचनम्

रुषात्मा स्वभावो रसास्वादे सहकार्येव । अत एव च सहकारितामेवाभिधातुं निमित्तस- प्तमी कृता वर्णपदादिष्विति । न तु वर्णैरेव रसाभिव्यक्तिः, विभावादिसंयोगाद्धि रसनि. ष्पत्तिरित्युक्तं बहुशः। श्रोत्रैकग्राह्योऽपि च स्वभावो रसनिष्यन्दे व्याप्रियत एव, अपदगीतध्वनिवत् पुष्करवाद्यनियमितविशिष्टजातिकरणघ्राद्यनुकरणशब्दवच्च । पदे चेति । पदे च सतीत्यर्थः । तेन रसप्रतीतिर्विभावादेरेव । ते विभवादयो यदा विशि. ष्टेन केनापि पदेनार्यमाणा रसचमत्कारविधायिनो भवन्ति तदा पदस्यैवासौ महिमा समर्प्यत इति भावः।

 अत्र हीति । वासवदत्तादाहाकर्णनप्रबुद्धशोकनिभरस्य वत्सराजस्येदं परिदेवितव- चनम् । तत्र च शोको नामेष्टजनविनाशप्रभव इति तस्य जनस्य ये भ्रूक्षेप कटाक्षप्रमृ. तयः पूर्व रतिविभावतामवलम्बन्ते स्म त एवात्यन्तविनष्टाः सन्त इदानीं स्मृतिगोचर- तया निरपेक्षभावत्वप्राणं करुणमुद्दीपयन्तीति स्थितम् । ते लोचने इति तच्छब्दस्त- ल्लोचनगतस्वसंवेद्याव्यपदेश्यानन्तगुणगणस्मरणाकारद्योतको रसस्यासाधारणनिमित्ततां प्राप्तः। तेन यत्केनचिच्चोदितं परिहृतं च तन्मिथ्यैव । तथाहि चोद्यम्-प्रक्रान्तपरा- मर्शकस्य तच्छब्दस्य कथमियति सामर्थ्यमिति। उत्तर च-रसाविष्टोऽत्र पराम्रष्टेति ।

बालप्रिया

श्रुतिसमये उपलक्ष्यमाणो ज्ञायमानो योऽर्थस्तदनपेक्ष्यपीत्यर्थः । मृदुपुरुषात्मेति । मृदुत्वपरुषत्वरूप इत्यर्थः। रसनिष्यन्दे व्याप्रियत इति। रसास्वादे सहकारीत्यर्थः । दृष्टान्तमाह-अपदेत्यादि । पदरहितगानशब्दवदित्यर्थः । ब्रायनुहारेति च पाठः। पदे च सतीति । पदविशेषसत्वनिमि कम्चेत्यर्थः । अस्य भावमाह-तेनेत्यादि । ते रसास्वादहेतवः । तस्य जनस्येति । वासवदत्तात्मकेष्टजनस्येत्यर्थः । इति स्थि. तमिति । इति वस्तुस्थितिरित्यर्थः। तच्छब्द इति अनुभूतार्थक इति भावः । स्पष्ट- मिदं काव्यप्रकाशादौ। तदित्यादि। वक्तृनायकगतं तथाविधगुणगणस्मरणं स्मरणविषय. गुणगणं वा द्योतयतीत्यर्थः । प्राप्त इति। तत्स्मरणस्य शोकोद्दीपकत्वादिति भावः । तेने- ति । यतोऽत्र तच्छब्दोऽनुभूतार्थकः स्मरणाकारद्योतकश्च तत इत्यथः । अनुत्थानोपहि. तमित्यनेनास्य सम्बन्धः । मिथ्यैव परिहृतमित्यन्वयः । इयतीति उक्त्तार्थबोधन इत्यर्थः । रसाविष्ट इत्यादि । तल्लोचनगततथाविधगुणगणं बुद्धौ कृत्वा रसाविष्टेन वक्त्रा ते इत्युक्तम् , स एवार्थः प्रतिपत्त्रापि परामृश्यत इति भावः । पराम्रष्टा

३९ ध्व०