पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०४
सटीकलोचनोपेतध्वन्यालोके


पदे चालक्ष्यक्रमव्ययस्य द्योतनं यथा-

उत्कम्पिनी भयपरिस्खलितांशुकान्ता
ते लोचने प्रतिदिशं विधुरे क्षिपन्ती ।
क्रूरेण दारुणतया सहसैव दग्धा
धूमान्धितेन दहनेन न वीक्षितासि ॥


लोचनम्

रार्थ श्लोकाभ्यामिति न कृतम् । पूर्वश्लोकेन हि व्यतिरेक उक्तो द्वितीयेनान्वयः। अ- स्मिन्विषये शृङ्गारलक्षणे शषादिप्रयोगः सुकवित्वमभिवाञ्छता न कर्तव्य इत्येवंफल- स्वादुपदेशस्य कारिकाकारेण पूर्व व्यतिरेक उक्तः । न च सर्वथा न कर्तव्योऽपि तु बीभत्सादौ कर्तव्य एवेति पश्चादन्वयः । वृत्तिकारेण त्वन्वयपूर्वको व्यतिरेक इति शैली- मनुसर्तुमन्वयः पूर्वमुपात्तः।

 एतदुक्तं भवति-यद्यपि विभावानुभावव्यभिचारिप्रतीतिसम्पदेव रसास्वादे निबन्ध- नम् । तथापि विशिष्टश्रुतिकशब्दसमयमाणास्ते विभावादयस्तथा भवन्तीति स्वसंवि. सिद्धमदः । तेन वर्णानामपि श्रुतिसमयोपलक्ष्यमाणार्थानपेक्ष्यपि श्रोत्रैकग्राह्यो मृदुप.

बालप्रिया

पाठे तेनेत्येकं पदं, रसच्युत इति पाठे तु ते नेति पदद्वयमिति बोध्यम् । यथा- संख्येत्यादि । श्लोकाभ्यामिति निर्देशे द्वाभ्यां श्लोकाभ्यां प्रतिपादितौ याव- न्वयन्यतिरेकौ ताभ्यामित्यर्थस्य प्रतीत्या यथासङ्ख्यमन्वयस्य प्रसक्तिर्भवति, श्लो- कद्वयेनेति निर्देशे तु श्लोकात्मकद्वयवयवघटितसमुदायेन प्रतिपादितौ यावन्व. यव्यतिरेको ताभ्यामित्यर्थस्य प्रतीत्या न तत्प्रसक्तिरिति भावः । नन्वत्र यथा- सङ्ख्यमस्त्वित्यत्राह-पूर्वेत्यादि । कारिकायामादौ व्यतिरेकप्रदर्शनस्य बीजमाह- अस्मिन्नित्यादि । तर्हि वृत्तावन्यथा कथने किं बीजमित्यत्राह-वृत्तीत्यादि । विभावादीनामेव रसव्यञ्जकत्वाद्वर्णादीनान्तात् कथमित्यशङ्कां प्रदर्श्य परिहरति- एतदित्यादि । विशिष्टेति । विशिष्टा उपनागरिकादिवृत्तिविशिष्टा तद्विषयिकेति यावत् । श्रुतिः श्रवणं येषान्तैः शब्दः समयमाणा इत्यर्थः । तथेति । रसास्वा- दनिबन्धनानीत्यर्थः । वर्णानामपीति । 'स्वभाव' इत्यनेनास्य सम्बन्धः । श्रुतीति ।


१ 'झगिति कनकचित्रे तत्र दृष्ट कुरो
रभसविकसितास्ते दृष्ठिपाताः प्रियायाः ।
पवनविलुलितानामुत्पलानां पलाश-
प्रकरमिव किरन्तः स्मर्यमाणा दहन्ति ॥

 इदं पद्यं उत्कम्पिनीत्यादिपद्योत्तरं वचिदृश्यते ।