पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०३
तृतीयोद्योतः


 तत्र वर्णानामनर्थकत्वाद्दयोतकत्वमसम्भवीत्याशङ्कदमुच्यते-

शषौ सरेफसंयोगो ढकारश्चापि भूयसा ।
विरोधिनः स्युः शृङ्गारे तेन वर्णा रसच्युतः ॥ ३ ॥
त एव तु निवेश्यन्ते बीभत्सादौ रसे यदा ।
तदा तं दीपयन्त्येव तेन वर्णा रसच्युतः ॥ ४ ॥

 श्लोकद्वयेनान्वयव्यतिरेकाभ्यां वर्णानां घोतकत्वं दर्शितं भवति ।


लोचनम्

इत्यभिप्रायेण वर्णादीनां यथाक्रममुपादानम् । आदिशब्देन पदैकदेशपदद्वितयादीनां ग्रहणम् । सप्तम्या निमित्तत्वमुक्तम् । दीप्यतेऽवभासते सकलकाव्यावभासकतयेति पूर्ववत्काव्यविशेषत्वं समर्थितम् ॥ २ ॥

 भूयसेति प्रत्येकमभिसम्बध्यते । तेन शकारो भूयसेत्यादि व्याख्यातव्यम् । रेफ. प्रधानस्सयोगः कर्हर्द्रं इत्यादिः । विरोधिन इति । परुषा वृत्तिविरोधिनी शृङ्गारस्य । यतस्ते वर्णा भूयसा प्रयुज्यमाना न रसांश्च्योतन्ति स्रवन्ति । यदि वा तेन शृङ्गारवि- रोधित्वेन हेतुना वर्णाः शषादयो रसाच्छृङ्गाराच्च्यवन्ते तं न व्यञ्जयन्तीति व्यतिरेक उक्तः। अन्वयमाह-त एव त्विति। शादयः ।तमिति बीभत्सादिकं रसम् । दीपयन्ति द्योतयन्ति । कारिकाद्वयं तात्पर्येण व्याचष्टे-श्लोकद्वयेनेति । यथासंख्य प्रसङ्गपरिहा.

बालप्रिया

 आदिशब्देनेति । 'पदादिष्वित्यादिपदेनेत्यर्थः । सप्तम्येति । पदादिष्वित्या- दिस्थया सप्तम्येत्यर्थः । निमित्तत्वमुक्तमिति । न त्वधिकरणत्वमिति भावः । दीप्यत इत्यस्य विवरणम्-सकलकाव्यावभासकतयावभासत इति । अलक्ष्य- क्रमस्तु यो ध्वनिः समुदायात्मकः काव्यविशेषः । सः वर्णादिनिमित्तको दीप्यत इत्य- र्थादयमर्थस्सिध्यतीति भावः । काव्यविशेषत्वमिति । ध्वनेरिति शेषः ॥ २ ॥

 प्रत्येकमिति । शषावित्यादिना प्रत्येकमित्यर्थः । भूयसेति । प्रयुज्यमानो विरोधीति शेषः । सारार्थमाह-परुषेति । तल्लक्षणमुक्तं भट्टोद्भटेन-“शषाभ्यां रेफसंयोगैः टवर्गेण च योजिता । परुषा नाम वृत्तिस्स्यादिति । रसश्च्युत इति पाठे ते न इति पदद्वयमित्याशयेन व्याचष्टे-ते वर्णा इत्यादि । ते वर्णाः शषादयः । रसं शृङ्गारम् । स्रवन्ति स्रावयन्ति । रसच्युत इति पाठे तु तेनेत्येक पदमित्याह- यदि वेत्यादि । तेनेत्यस्य व्याख्यानम्-शृङ्गारेत्यादि, रसाच्च्यवन्त इत्यस्य तं न व्यञ्जयन्तीति च । इतीत्यादि । शषावित्यादिश्लोकेन शकारादिवर्णसत्वे शृङ्गारव्य- क्त्यभावरूपो व्यतिरेकः प्रदर्शित इत्यर्थः । अन्वयमिति। शषादिसत्वे बीभत्सा- दिव्यक्तिरूपमन्वयमित्यर्थः । 'त एवेत्यादिकारिकायाश्चतुर्थपादे रसश्च्युत इति