पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०२
सटीकलोचनोपेतध्वन्यालोके


'अनिष्टस्य श्रुतिर्यद्वदापादयति दुष्टताम् ।
श्रुतिदुष्टादिषु व्यक्तं तद्वदिष्टस्मृतिर्गुणम् ॥
पदानां स्मारकत्वेऽपि पदमात्रावमासिनः ।
तेन ध्वनेः प्रभेदेषु सर्वेष्वेवास्ति रम्यता ॥
विच्छित्तिशोभिनकेन भूषणेनेव कामिनी ।
पदद्योत्येन सुकवेर्ध्वनिना भाति भारती ॥'

 इति परिकरश्लोकाः।

यस्त्वलक्ष्यक्रमव्यङ्गयो ध्वनिर्वर्णपदादिषु ।
वाक्ये सङ्घटनायां च स प्रबन्धेऽपि दीप्यते ॥२॥

लोचनम्

वार्यते । यथा श्रुतिदुष्टानां पेलवादिपदानामसभ्यपेलाद्यर्थं प्रति न वाचकत्वम् । अपि तु स्मारकत्वम् । तद्वशाच्च चारुस्वरूपं काव्यं श्रुतिदुष्टम् । तच्च श्रुतिदुष्टत्वमन्वयव्यति- रेकाभ्यां भागेषु व्यवस्थाप्यते तथा प्रकृतेऽपीति तदाह-अनिष्टस्येति । अनिष्टार्थ- स्मारकस्येत्यर्थः । दुष्टतामित्यचारुत्वम् । गुणमिति चारुत्वम् । एवं दृष्टान्तमभिधाय पादत्रयेण तुर्येण दार्ष्टान्तिकार्थं उक्तः । अधुनोपसंहरति-पदानामिति । यत एव. मिष्टस्मृतिश्चारुत्वमावहति तेन हेतुना सर्वेषु प्रकारेषु निरूपितस्य पदमात्रावभासिनोऽपि पदप्रकाशस्यापि ध्वने रम्यतास्ति स्मारकत्वेऽपि पदानामिति समन्वयः । अपिशब्दः काकाक्षिन्यायेनोभयत्रापि सम्बध्यते। अधुना चारूत्वप्रतीतौ पदस्यान्वयव्यतिरेको दर्शयति-विच्छित्तीति ॥ १॥

 एवं कारिकां व्याख्याय तदसङ्गृहीतमलक्ष्यक्रमव्यङ्गयं प्रपञ्चयितुमाह-यस्त्वि- ति । तुशब्दः पूर्वभेदेभ्योऽस्य विशेषद्योतकः । वर्णसमुदायश्च पदम् । तत्समुदायो वाक्यम् । सङ्घटना पदगता वाक्यगता च । सङ्घटितवाक्यसमुदायः प्रबन्धः

बालप्रिया

शङ्काग्रन्थः । ततः किमित्मादिर्वक्ष्यमाणार्थकः परिहारग्रन्थः। पेलवादिपदाना- मिति । 'अतिपेलवमतिपरिमितवर्णं लघुतरमुदाहरति शठ' इत्यादौ पेलवादिशब्दाना- मित्यर्थः। असभ्येति । असभ्यो यः पेलाद्यर्थः पेलादिशब्दार्थस्तं प्रतीत्यर्थः । पेलशब्दो हि लाटभाषायां वृषणवाचकः । न वाचकत्वमिति । तदर्थस्य तद्वा- क्यार्थघटकस्वाभावादिति भावः । पादत्रयेणाभिधायेति सम्बन्धः । 'तेनेति पदस्य विवरणम्-यत इत्यादि । निरूपितस्येति पूरितम् । अपिशब्दः स्मारकत्वेऽ. पीत्यपिशब्दः ॥२॥