पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०१
तृतीयोद्द्योतः


देव दोषः यदि वाचकत्वं प्रयोजकं ध्वनिव्यवहारे स्यात् । न त्वेवम् , तस्य व्यञ्जकत्वेन व्यवस्थानात् । किं च काव्यानां शरीराणामिव संस्था- नविशेषावच्छिन्नसमुदायसाध्यापि चारुत्वप्रतीतिरन्वयव्यतिरेकाभ्यां भागेषु कल्प्यत इति पदानामपि व्यञ्जकत्वमुखेन व्यवस्थितो ध्वनिव्यवहारो न विरोधि ।


लोचनम्

वस्तुवृत्तेनापि परिहरति-किं चेति । यदि परो ब्रूयात्-न मया अवाचकत्वं ध्व- न्यभावे हेतूकृतं किं तूक्तं काव्यं ध्वनिः । काव्यं चानाकाङ्क्षप्रतिपत्तिकारि वाक्यं न पद- मिति तत्राह-सत्यमेवं, तथापि पदं न ध्वनिरित्यस्माभिरुक्तम् । अपि तु समुदाय एव; तथा च पदप्रकाशो ध्वनिरिति प्रकाशपदेनोक्तम् । ननु पदस्य तत्र तथाविथं सामर्थ्य- मिति कुतोऽखण्ड एव प्रतीतिकम इत्याशङ्कयाह-काव्यानामिति । उक्तं हि प्राग्वि- वेककाले विभागोपदेश इति ।

 ननु भागेषु पदरूपेषु कथं सा चारुत्वप्रतीतिरारोपयितुं शक्या ? तानि हि स्मार- काण्येव । ततः किम् ? मनोहारिव्यङ्गथार्थस्मारकत्वाद्धि चारुत्वप्रतीतिनिबन्धनत्वं केन

बालप्रिया

जक इति । असाधक इत्यर्थः । छलेन व्याजेन वक्ष्यमाणाभिप्रायाप्रकटनेनेति यावत् । तावत् आदौ। वस्तुवृत्तेनापीति । पारमार्थिकाभिप्रेतार्थप्रकटनेनापीत्यर्थः । ननु वस्तुवृत्तेन परिहारः किमर्थ इत्यतः काव्यानामित्यादिग्रन्थमवतारयिष्यन् भूमिका- माह-यदि पर इत्यादि । ध्वन्यभावे ध्वनिप्रकाशकत्वाभावे । पदानामिति शेषः। हेतूकृतं हेतुत्वेनोक्तम् । किन्त्वित्यादि । काव्यविशेषो ध्वनिः काव्यञ्च तथा- विधं वाक्यमिति वाक्यमेव ध्वनिः, पदन्तु न ध्वनिरित्यर्थः । तथाच पदे ध्वन्य- भावे अवाक्यत्वं हेतुरिति भावः । इति ब्रूयादिति सम्बन्धः । आहेति । सिद्धान्तीति शेषः । तथापीत्यन्तमभ्युपगमे । न उक्तमिति सम्बन्धः। समुदाय एवेति । ध्वनिरित्युक्तमित्यनुषङ्गः । अत्रोपष्टम्भकमाह-तथाचेत्यादि । तत्रेति । वाक्य इत्यर्थः । तथाविधं ध्वनिप्रकाशनानुकूलम् । इति कुत इत्येतत्कथं घटते । अत्र हेतुः-अखण्ड इत्यादि । भागेषु कल्प्यत इत्यत्रोपष्टम्भकमाह-उक्तं हीत्यादि । वृत्तौ 'काव्यानामि'त्यस्य 'चारुत्वे'त्यनेन सम्बन्धः। संस्थानेति । संस्थानविशेषैः शब्दसन्दर्भविशेषः मुखाद्यवयवसंयोगविशेषैश्च अवच्छिन्नो विशिष्टो यस्समुदाय स्त- त्साध्यापीत्यर्थः । तथाच प्रतीयमानं चारूत्वं समुदायनिष्ठमिति भावः । 'भागेषु' पदेषु मुखादिषु च । 'कल्प्यत' इति । प्राधान्यादिति भावः । इतीति हेतौ । 'व्यञ्जकत्व- मुखेन' व्यञ्जकत्वप्राधान्येन । 'ध्वनिव्यवहारः' पदप्रकाशो ध्वनिरिति व्यवहारः ।

 'अनिष्टस्य त्यादिग्रन्थमवतारयति लोचने-नन्वित्यादि । स्मारकाण्येवेत्यन्तः