पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३००
सटीकलोचनोपेतध्वन्यालोके


तस्यैव वाक्यप्रकाशता यथा-

सिहिपिन्छकण्णऊरा बहुआ वाहस्स गव्विरी भमइ ।
मुत्ताफलरइअपसाहणाणँ मज्झे सवत्तीणम् ॥

 अनेनापि वाक्येन व्याधवध्वा शिखिपिच्छकर्णपूराया नवपरिणी- तायाः कस्याश्चित्सौभाग्यातिशयः प्रकाश्यते । तत्सम्भोगैकरथो मयूरमात्र. मारणसमर्थः पतिर्जातं इत्यर्थप्रकाशनात् तदन्यासां चिरपरिणीतानां मुक्ताफलरचितप्रसाधनाना दौर्भाग्यातिशयः ख्याप्यते । तत्सम्भोगकाले स एव व्याधः करिवरवधव्यापारसमर्थ आसीदित्यर्थप्रकाशनात् ।

 ननु ध्वनिः काव्यविशेष इत्युक्तं कत्कथं तस्य पदप्रकाशता । का. व्यविशेषोहि विशिष्टार्थप्रतिपत्तिहेतुः शब्दसन्दर्भविशेषः । तद्भावश्च पद. प्रकाशत्वे नोपपद्यते । पदानां स्मारकत्वेनावाचकत्वात् । उच्यते--स्या-


लोचनम्

 सिहिपिच्छेति । पूर्वमेव योजिता गाथा । नन्विति । समुदाय एव ध्वनिरित्यत्र पक्षे चोद्यमेतत् । तद्भावश्चेति । काव्यविशेषत्वमित्यर्थः । अवाचकत्वादिति यदुक्तं सोऽयमप्रयोजको हेतुरिति छलेन तावद्दर्शयति-स्यादेष दोष इति । एवं छलेन परिहृत्य

बालप्रिया

त्यादि । हस्तिदन्तादेरपाहरणमनाहरणं दन्ताद्यनाहरणमिति च पाठः । स्नुषाभर्तुरिति शेषः। समुदाय इति । वाचकवाच्यव्यङ्गयादिसमुदाय इत्यर्थः । इत्यत्र पक्ष इति । 'अविवक्षितवाच्यस्येत्यादिकारिकायां समुदायस्यैव ध्वनिपदार्थत्वादत्र पक्ष एवं चोद्यस्योपपत्तेश्चेति भावः । वृत्ती 'नन्वित्यादि । 'इत्युक्तमिति । 'यत्रार्थशब्दो वेत्यादिनेति भावः । 'तत्' तस्मात् । चोद्यमुपपादयति-'काव्यविशेषौ हीत्यादि । 'विशिष्टेति । वाच्यव्यङ्गयभेदेन द्विविधो यो विशिष्टार्थः तत्प्रतिपत्तिहेतुरित्यर्थः । 'शब्देशत्यादि । सङ्घटितपदविशेष इत्यर्थः। विशिष्टार्थस्तत्प्रतिपादको वाक्यविशेष- श्चेति यावत् । ततः किमत आह-'तद्भावश्चेत्यादि । 'पदप्रकाशत्वे' पदप्रकाश्यत्वे सति । 'नोपपद्यते' न सङ्गच्छते । तद्भावः पदप्रकाशत्वेन सह विरुद्ध इत्यर्थः कुत इत्यत्राह-पदानामित्यादि । 'अवाचकत्वात्' अनुभावकत्वाभावात् । पदैस्त- त्तदर्थाः स्मार्यन्ते, स्मृतास्ते त्वाकाङ्क्षादिसहकृता वाक्यार्थमनुभावयन्तीति मते पद- स्मारितत्वरूपं पदप्रकाशत्वं तत्तदर्थ एव वर्तते । तत्र च काव्यविशेषत्वरूपं ध्वनित्व- न्नास्तीत्यतो ध्वनेः न पदप्रकाशत्वं, किन्तु वाक्यप्रकाशत्वमेव सम्भवतीति भावः । अनेन ग्रन्थेन पदन्न ध्वनिप्रकाशकमवाचकत्वादित्यर्थः फलित इत्यभिप्रेत्य 'स्यादेष दोष' इत्यादिसमाधानग्रन्थमवतारयति लोचने-अवाचकत्वादित्यादि । अप्रयो- ।