पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९९
तृतीयोद्द्योतः


स्वतःसम्भविशरीरार्थशक्त्युद्भवे प्रभेदे पदप्रकाशता यथा-

वाणिअअ हतिदन्ता कुत्तो अह्माण बाधकित्ती अ।
जाव लुलिमालअमुही धरम्मि परिसक्कए सुह्वा ।

 अत्र ललितालकमुखीत्येतत्पदं व्याघवध्वाः स्वतःसम्भावितशरीरार्थ- शक्त्या सुरतक्रीडासक्तिं सूचयंस्तदीयस्य भर्तुः सततसम्भोगक्षामतां प्रका- शयति ।


लोचनम्

 इत्यत्र कविना यो विरागी वक्ता निबद्धस्तत्प्रौढोक्त्या जीवितशब्दोऽर्थशक्तिमूलत. येदं ध्वनयति-सर्व एवामी कामा विभूतयश्च स्वजीवितमात्रोपयोगिनः, तदभावे हि सद्भिरपि तैरसद्रूपताप्यते, तदेव च जीवितं प्राणधारणरूपत्वात्प्राणवृत्तेश्च चाञ्च- ल्यादनास्थापदमिति विषयेषु वराकेषु किं दोषोद्धोषणदौर्जन्येन निजमेव जीवितमुपा. लभ्यम्,तदपि च निसर्गचञ्चलमिति न सापराधमित्येतावता गाढं वैराग्यमिति । वाक्यप्रकाशता यथा-'शिखरिणि' इत्यादौ ।

वाणिजक हस्तिदन्ताः कुतोऽस्माकं व्याघ्रकृत्तयश्च ।
यावल्लुलितालकमुखी गृहे परिष्वकते स्नुषा ॥ इति छाया ।

 सविभ्रमं चंक्रम्यते । अत्र ललितेति स्वरूपमात्रेण विशेषणमवलिप्ततया च हस्तिदन्ता- द्यपाहरणं सम्भाव्यमिति वाक्यार्थस्य तावत्येव न काचिदनुपपत्तिः ।

बालप्रिया

प्रकाशेऽप्युदाहृतोऽयं श्लोकः । कामाः काम्यमाना वनितादयः । तदभावे जीविता- भावे । जीवितमनास्थापदमिति सम्बन्धः । अत्र हेतुः-प्राणेत्यादि । इतीति हेतौ । निसर्गचञ्चलमितीति । निसर्गचञ्चलत्वाद्धेतोरित्यर्थः । स्वभावस्यापरिहार्यत्वादिति भावः ।

 वाणिजकेति । अस्माकं गृहे कुतस्सन्ति ? न सन्तीत्यर्थः । अत्र कार्यान्तर- व्यग्रतां हेतुत्वेन दर्शयन्नाह-यावदित्यादि । यावत् यतः । लुलितेति। लुलि. ताः इतस्ततो विकीर्णा अलका यत्र तथाविधं मुखं यस्यास्सा। स्नुषा पुत्रभार्या । परिष्वक्कत इति । अतस्तत्परिपालनव्यग्रा वयमिति भावः । स्वत इत्यादि । स्वतस्सम्भावितं लोकेऽप्यौचित्यात्सम्भाव्यमानं शरीरं यस्य तथाविधस्यार्थस्य शक्त्या सामर्थ्येनेत्यर्थः। लोचने 'परिष्वक्कत' इत्यस्य व्याख्यानम्-सविभ्रमं चङ्क्र- म्यत इति । व्यङ्गयस्य वाच्यसिद्धयङ्गत्वशङ्को परिहरति-अत्रेत्यादि । लुलिते. तीति । इत्यादिक्रमित्यर्थः । स्वरूपेत्यादि । स्वरूपकथनमित्यर्थः । अवलिप्ततयेति । धनित्वाद्यभिमानेनेत्यर्थः । चकारस्तम्भवतो हेत्वन्तरस्य समुच्चायकः । हस्ती.