अस्यैव कविप्रौढोक्तिमात्रनिष्पन्नशरीरस्यार्थशक्त्युद्भवे प्रभेदे पदप्र.
काशता यथा हरिविजये--
चुअंकुरावअंसं छणमप्यसरमध्यणमणहरसुरामोअम् । |
समर्पितमपीत्येतदवस्थाभिधायिपदमर्थशक्त्या कुसुमशरस्य बलात्कार प्रका. शयति ।
अत्रैव प्रभेदे वाक्यप्रकाशता यथोदाहृतं प्राक् 'सज्जेहि सुरहिमासो' इत्यादि । अत्र सञ्जयति सुरभिमासो न तावदर्पयत्यनङ्गाय शरानित्ययं वाक्यार्थः कविप्रौढोक्तिमात्रनिष्पन्नशरीरो मन्मथोन्माथकदनावस्था वस- न्तसमयस्य सूचयति।
लोचनम्
नागराज एव दिग्दन्तिप्रभृतिष्वपि प्रलीने प्रित्यर्थान्तरम् ।
चूताङ्कुरावतंसं क्षणप्रसरमहार्घमनोहरसुरामोदम् । |
महार्घण उत्सवप्रसरेण मनोहरसुरस्य मन्मथदेवस्य आमोदश्चमत्कारो यत्र तत् अत्र महार्घशब्दस्य परनिपातः, प्राकृते नियमाभावात् । छण इत्युत्सवः ।
असमर्पितमपि गृहीतं कुसुमशरेण मधुमासलक्ष्मीमुखम् ॥ |
मुख प्रारम्भो वक्त्रं च । तच्च सुरामोदयुक्तं भवति । मध्वारम्भे कामश्चित्त- माक्षिपतीत्येतावानयमर्थः कविप्रौढोक्त्यार्थान्तरव्यञ्जकः सम्पादितः । अत्र कवि- निबद्धवक्तृप्रौढोक्तिशरीरार्थशक्त्युद्भवे पदवाक्यप्रकाशतायामुदाहरणद्वयं न दत्तम् । 'प्रौढोक्तिमात्रनिष्पन्नशरीरः सम्भवी स्वतः' इति प्राच्यकारिकाया इयतैवोदाहृतत्वं भवेदित्यभिप्रायेण । तत्र पदप्रकाशता यथा---
सत्यं मनोरमाः कामाः सत्यं रम्या विभूतयः । |
बालप्रिया
कल्पेत्यादि । 'महाप्रलय' इत्यस्य कल्पावसान इति, 'धरणीधारणायेत्यस्य भूभा- रेत्यादि, 'शेष' इत्यस्य नागराज इति च विवरणम् । दिग्दन्तीत्यादि भावार्थ- कथनम् । अत्रोपमा व्यङ्गया बोध्या । मधुमासलक्ष्म्या नायिकात्वप्रतीत्या तदनुगुण- मर्थमाह-वक्त्रश्चेति । सुरा मद्यम् । अर्थान्तरव्यञ्जक इति । अर्थान्तरं वृत्ता- चुक्तम् । अत्रेत्यादि । इत्यभिप्रायेण न दत्तमिति सम्बन्धः । सत्यमिति । काव्य- 1