पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९५
तृतीयोद्द्योतः


लोचनम्

तेति । न तु विषयवर्जनमात्रादेव संयमीति यावत् । यदि वा सर्वभूतनिशायां मोहिन्यां जागर्ति कथमियं हेयेति । यस्यां तु मिथ्यादृष्टौ सर्वाणि भूतानि जाग्रति अतिशयेन सुप्र- बुद्धरूपाणि सा तस्य रात्रिरप्रबोधविषयः। तस्यां हि चेष्टायां नासौ प्रबुद्धः। एवमेव लोकोत्तराचारव्यवस्थितः पश्यति मन्यते च । तस्यैवान्तर्बहिष्करणवृत्तिश्चरितार्था। अन्य- स्तु न पश्यति न च मन्यत इति । तत्वदृष्टिपरेण भाव्यमिति तात्पर्यम् । एवं च पश्यत इत्यपि मुनेरित्यपि च न स्वार्थमात्रविभ्रान्तम् । अपि तु व्यङ्गय एव विश्राम्यति । यत्तच्छब्दयोश्च न स्वतन्त्रार्थतेति सर्व एवायमाख्यातसहायः पदसमूहो व्यङ्गयपरः । तदाह-अनेन हि वाक्येनेति । प्रतिपाद्यत इति ध्वन्यत इत्यर्थः । विषमयितो विषमयतां प्राप्तः । केषाश्चिदुष्कृतिनामतिविवेकिनां वा । केषाञ्चित्सुकृतिनामत्यन्त- मविवेकिनां वा अतिक्रामत्य मृतनिर्माणः। केषाञ्चिन्मिश्रकर्मणां विवेकाविवेकवतां वा, विषामृतमयः । केषामपि मूढप्रायाणां धाराप्राप्तयोगभूमिकारूढानां वा अविषामृतमयः कालोऽतिक्रामतीति सम्बन्धः । विषामृतपदे च लावण्यादिशब्दवनिरूढलक्षणारूपतया सुखदुःखसाधनयोर्वर्तते, यथा-विषं निम्बममृतं कपित्थमिति । न चात्र सुखदुःख- साधने तन्मात्रविश्रान्ते, अपि तु स्वकर्तव्यसुखदुःखपर्यवसिते । न च ते साधने सर्वथा

बालप्रिया

त्यादि । इयं कथं प्राप्येतेति मत्या तत्प्राप्त्युपायमनुतिष्ठतीत्यर्थः । भावमाह-न त्वि. त्यादि । संयमी संयमिपदवाच्यः । तत्वदृष्टेर्मोहजनकत्वमप्रसिद्धमित्यतोऽन्यथा विवृ. णोति-यदि वेत्यादि । मोहिन्यामिति । अविद्यायामित्यर्थः । मिथ्यादृष्टाविति । अविद्यायां तत्कार्ये द्वैतप्रपञ्चे वेत्यर्थः । तस्येति । संयमिन इत्यर्थः । अप्रबोधवि- षय इत्यस्यैव विवरणम्-तस्या हीत्यादि । असाविति । संयमीत्यर्थः । लोकोत्त. राचारव्यवस्थित इति संयमिपदस्यैव लक्ष्यार्थकथनम् । “पश्यतो मुने रित्यस्य विवरणम्-पश्यति मन्यते चेति । अत्र पश्यतीत्येतच्चरितार्थबहिष्करणवृत्तित्वेन मन्यत इत्येतच्चरितार्थान्तःकरणवृत्तित्वेन च रूपेण लक्षकमित्याह- -तस्यैवेत्यादि । अनेन गम्यमर्थमाह-अन्य इत्यादि। फलितं व्यङ्गयमाह-तत्वेति । व्यङ्गय ए. वेति । पूर्वोक्तमुख्यव्यङ्गय एवेत्यर्थः । तदाहेति । उक्ताभिप्रायादाहेत्यर्थः । 'केषामपी' त्यादेर्विवरणम्-केषाश्चिदित्यादि । 'प्रयातीत्यस्य अतिक्रमतीति । 'अमिअणि- म्माओ'इति गाथापाठाभिप्रायेण छायामाह-अमृतनिर्माण इति । अमृतस्येव निर्माणं यस्य स इत्यर्थः । विषामृतपदयोः दुःखसुखसङ्क्रमितवाच्यत्वं वृत्तायुक्तं व्यवस्था. पयिष्यन्नाह-विषामृतपदे इत्यादि। सुखदुःखेति व्युत्क्रमेण निर्देशः दुःखसुखसा- धनयोरित्यर्थः । तथा पाठो वा । एवमुपर्यपि बोध्यम् । अत्र दृष्टान्तमाह-यथेत्या- दि । इतीत्यस्य इत्यादावित्यर्थः । प्रकृतोदाहरणे विशेषमाह-न चेत्यादि । अत्रेति । प्रकृतोदाहरण इत्यर्थः । तन्मात्रेति । सुखदुःखसाधन मात्रेत्यर्थः । तन्मात्रविश्रान्तेन