पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९४
सटीकलोचनोपेतध्वन्यालोके


 अनेन हि वाक्येन निशार्थो न च जागरणार्थः कश्चिद्विवक्षितः । किं तर्हि ? तत्वज्ञानावहितत्वमतत्त्वपराङ्मुखत्वं च मुनेः प्रतिपाद्यत इति तिरस्कृतवाच्यस्यास्य व्यञ्जकत्वम् ।

 तस्यैवार्थान्तरसङ्क्रमितवाच्यस्य वाक्यप्रकाशता यथा-

विसमइओ काण वि काण वि वालेइ अमिअणिम्माओ ।
काण वि विसामिअमओ काण वि अविसामओ कालो ।।
(विषमयितः केषामपि केषामपि प्रयात्यमृतनिर्माणः ।
केषामपि विषामृतमयः केषामप्यविषामृतः कालः ॥ इति छाया)


लोचनम्

देशः सिद्धयति । निशायां जागरितव्यमन्यत्र रात्रिवदासितव्यमिति किमनेनोक्तेन । तस्माद्बाधितस्वार्थमेतद्वाक्यं संयमिनो लोकोत्तरतालक्षणेन निमित्तेन तत्वदृष्टाववधानं मिथ्यादृष्टौ च पराङ्मुखत्वं ध्वनति । सर्वशब्दार्थस्य चापेक्षिकतयाप्युपपद्यमानतेति न सर्वशब्दार्थान्यथानुपपत्यायमर्थ आक्षिप्तो मन्तव्यः । सर्वेषां ब्रह्मादिस्थावरान्तानां चतु. र्दशानामपि भूतानां या निशा व्यामोहजननीतत्त्वदृष्टिः तस्यां संयमी जागर्ति कथं प्राप्ये-

बालप्रिया

न कश्चिदिति । कश्चिदुपदेशो न सिद्ध्तीत्यन्वयः। भगवद्गीतागतस्यास्योपदे- शपरत्वमावश्यकमिति भावः । कुतो न सिद्धयतीत्यत्राह-निशायामित्यादि । अन्यत्र रात्रिवदिति । अहनि रात्राविवेत्यर्थः । बाधितेति । अनुपयोगबाधिते- त्यर्थः । वाक्यमिति । निशा जागीर्तीत्यादिपदसमुदाय इत्यर्थः । तत्तत्पदलक्ष्यार्थाः प्रदर्शयिष्यन्ते । लोकोत्तरेत्यादि । लोकोत्तरत्वेन हेतुनेत्यर्थः । नन्वत्र निद्राकालरू- पनिशापदार्थे सर्वभूतसम्बन्धान्वये सर्वपदार्थघटकतया संयमिनोऽपि तदन्वयः प्राप्तः, स च जागर्तीत्येतदर्थान्वयिनोऽनुपपन्नस्तस्मादनेनोक्तव्यङ्गयस्याविष्कृतत्वान्न ध्वनित्व- मिति शङ्कां परिहरति-सर्वशब्दार्थस्येत्यादि । आपेक्षिकतयेति । सर्वशब्दोऽत्र संयमिव्यतिरिक्ताशेषत्वावच्छिन्नवाचक इत्यतः किञ्चिदपेक्षयेत्यर्थः । सर्वशब्दार्थेति । सर्वशब्दार्थान्वयेत्यर्थः । अयमर्थः पूर्वोक्तव्यङ्ग्यार्थः। आक्षिप्तः आविष्कृतः । श्लोकं व्यचष्टे-सर्वषामित्यादि । चतुर्दशानामपि भूतानामिति । ब्राह्मप्राजा पत्येन्द्रपित्र्यगान्धर्वयाक्षराक्षसपैशाचभेदादष्टविधन्दैवं मानुषमेकविधं पशुपक्षिसर्पकी. टस्थावरभेदात्पञ्चविधं तैर्यग्योनं भूतमिति चतुर्दशविधानामपि देहिनामित्यर्थः । यथोक्तं साङ्खयकारिकायां "अष्टविकल्पो दैव” इत्यादि । व्यामोहजननीति निशा- पदलक्ष्यार्थकथनम् । सा केत्यत्राह-तत्वेति । 'जागर्ति' पदलक्ष्यार्थमाह-कथमि-