यथा वा-
एमेअ जणो तिस्सा देउ कवोलोपमाइ ससिबिम्बम् । |
अत्र द्वितीयश्चन्द्रशब्दोऽन्तरसङ्क्रमितवाच्यः । अविवक्षितवाच्यस्यात्यन्ततिरस्कृतवाच्ये प्रभेदे वाक्यप्रकाशता यथा-
या निशा सर्वभूतानां तस्यां जागर्ति संयमी । |
लोचनम्
नौचित्यकलङ्कितमिति शोकालम्बनोद्दीपनविभावयोगात्करुणरसो रामस्य स्फुटी- कृत इति । एमेअ इति ।
एवमेव जनस्तस्या ददाति कपोलोपमायां शशि बिम्बम् । |
एवमेवेति स्वयमविवेकान्धतया। जन इति लोकप्रसिद्धगतानुगतिकतामात्रशरणः । तस्या इत्यसाधारणगुणगणमहार्धवपुषः । कपोलोपमायामिति निर्व्याजलावण्य सर्वस्व- भूतमुखमध्यवर्तिप्रधान भूत कपोलतलस्यापमायां प्रत्युत तदधिकास्तुकर्तव्यं ततो दूर- निकृष्टं शशिबिम्बं कलङ्कव्याजजिह्मीकृतम् । एवं यद्यपि गड्डरिकाप्रवाहपतितो लोकः, तथापि यदि परीक्षकाः परीक्षन्ते तद्वराकः कृपैकभाजनं यश्चन्द्र इति प्रसिद्धः स चन्द्र एव क्षयित्वविलासशून्यत्वमलिनत्वधर्मान्तरसंक्रान्तो योऽर्थः । अत्र च यथा व्यङ्गयध- र्मान्तरसक्रान्तिस्तथा पूर्वोकमनुसन्धेयम् । एवमुत्तरत्रापि ।
एवं प्रथमभेदस्य द्वावपि प्रकारौ पदप्रकाशकत्वेनोदाहृत्य वाक्यप्रकाशकत्वेनोदा- ह्ररति-या निशेति । विवक्षित इति । तेन ह्युक्तेन न कश्चिदुपदेश्य प्रत्युप-
बालप्रिया
पालः । शोकेत्यादि । सम्भावितप्रियामरणमालम्बनविभावः प्रियासम्बन्ध्यसाधारण- कर्मादिस्मरणम् द्दीपन विभावः । एवमेवेत्यादेर्भावार्थं व्यावष्टे-स्वयमित्यादि । तद- धिकमिति । कपोलादुत्कृष्टमित्यर्थः । उपमायां कर्तव्यमित्यन्वयः। उपमानत्वेन वक्तव्यमित्यर्थः । तत इति । कपोलादित्यर्थः । शशिपदविवरणम्-कलङ्केत्यादि । कलङ्कव्याजो यः शशः तेन जिह्मीकृतं मलिनी कृतम् । विअ इत्यवधारणार्थकमित्याशये- नाह-चन्द्र एवेति । द्वितीयचन्द्रपदस्य चन्द्रपदवाच्यत्वेन गुणशून्यत्वेन वा रूपेण लक्षणात्र बोध्या । व्यङ्गयधर्मानाह -क्षयित्वेत्यादि । सक्रान्तो योऽर्थ इति । अर्थः चन्द्रपदार्थः । अत्रेति । उक्तयोरुदाहरणयोरित्यर्थः । पूर्वोक्तमिति । द्वितीयो- द्योतस्यादावुक्तमित्यर्थः । तेन ह्युक्तेनेति । निशादिपदवाच्येन रात्र्याद्यर्थेनेत्यर्थः ।