पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९२
सटीकलोचनोपेतध्वन्यालोके


प्रेम्णः प्रिये नोचितम् । अत्र रामेणेत्येतत्पदं साहसैकरसत्वादिव्यङ्गया भिसङ्क्रमितवाच्यं व्यञ्जकम् ।


लोचनम्

कश्चिन्ममाज्ञां लङ्घयिष्यतीति । त इति यथा तादृगपि तया न गणितस्तस्यास्तवेत्यर्थः । तदपि तथा अविकारेणोत्सवापत्तिबुद्धया नेत्रविस्फारतामुखप्रसादादिलक्ष्यमाणया सोढम् । यथा येन प्रकारेण कुलजन इति यः कश्चित्पामरप्रायोऽपि कुलवधूशब्दवाच्यः। उच्चैः शिरो धत्ते एवं विधाः किल वयं कुलवध्वो भवाम इति । अथ च शिरःकर्तनाव. सरे त्वया शीघ्रं कृत्यतामिति तथा सोढं तथोच्चैः शिरो धृतं यथान्योऽपि कुलस्त्रीजन उच्चैः शिरो धत्ते नित्यप्रवृत्ततया । एवं रावणस्य तव च समुचितकारित्वं निर्व्यूढम् । मम पुनः सर्वमेवानुचितं पर्यवसितम् । तथाहि राज्य निर्वासनादिनिरवकाशीकृतधनु- र्व्यापारस्यापि कलत्रमात्ररक्षणप्रयोजनमपि यच्चापमभूत्तसंप्रति त्वय्यरक्षितव्यापन्नाया. मेव निष्प्रयोजनम् , तथापि च तद्धारयामि । तन्नूनं निजजीवितरक्षवास्य प्रयोज- नत्वेन संभाव्यते । न चैतद्युक्तम् । रामाणेति । समसाहसरसत्वसत्यसंधत्वोचि. तकारित्वादिव्यङ्गयधर्मान्तरपरिणतेनेत्यर्थः । 'कापुरुषादिधर्मपरिग्रहस्त्वादिशब्दात्' इति यद्वयाख्यातम् , तदसत् ; कापुरुषस्य ह्येतदेव प्रत्युतोचितं स्यात् । प्रिय इति शब्दमात्रमेवैतदिदानीं संवृत्तम् । प्रियशब्दस्य प्रवृत्तिनिमित्तं यत्प्रेमनाम तदप्य.

बालप्रिया

ति-यन्मूर्धकर्तनं नामेति । रावणेन हि श्रीरामस्य पुरतो मायासीताशिरश्छेदः कृतः । इतीति । इति बुद्धयेत्यर्थः । ते इत्यस्य प्रत्याख्यानेत्यनेन, कृतमित्यनेन च सम्बन्धः । भावार्थमाह-यथेत्यादि । तादृगपि निरतिशयैश्वर्यादिविशिष्टोऽपि सः गणित: आदृतः । तदपि शिरःकर्तनमपि । बुद्धयेत्यस्य विशेषणं-नेत्रेत्यादि । विस्फारता विकासः। सोढमनुभूतम् । इत्युच्चैश्शिरो धत्त इति सम्बन्धः । इत्यभि मानेन शिर उन्नतं करोतीत्यर्थः । अन्यथापि व्याचष्टे-अथ चेत्यादि । तच्चेत्यस्य विवरण-शिरःकर्तनावसर इति । तथा सोढमित्यस्य व्याख्यानं-तथोञ्च्चैरित्यादि । उच्चैश्शिरो धत्त इति प्रार्थनाप्रत्याख्यानेन क्रोधान्धे कस्मिंश्चित् कामिनि शिरःकर्तना. योद्युक्ते सति शिर उन्नतं करोतीत्यर्थः । नित्यप्रवृत्ततयेति लडर्थविवरणम्। उत्त- रार्धं व्याख्यास्यन्नाह-एवमित्यादि । पुनरिति तुशब्दविवरणम् । 'व्यर्थः मित्यादे- र्व्याख्यानम्-राज्येत्यादि । 'प्रियजीवितेने त्यस्य तन्नूनमित्यादि च । अस्येति । धनुर्धारणस्येत्यर्थः । एतदिति । निजजीवितरक्षाप्रयोजनकत्वेन धनुर्धारणमित्यर्थः । 'रामेणेत्यादिवृत्तिग्रन्थं ब्याचष्टे-रामेणेत्यादि । साहसैकरसत्वमित्यस्य विवरणम्- असमेत्यादि । आदिपदार्थकथनं-सत्येत्यादि । अत्र रामपदलक्ष्यतावच्छेदकं कातर- त्वमिति प्रदीपकारः, कैतवस्नेहवत्वमिति चक्रवर्ती, पुरुषकारपराङ्मुखत्वमिति भङ्गो.