पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९१
तृतीयोद्द्योतः


 तस्यैवार्थान्तरसङ्क्रमितवाच्ये यथा-'रामेण प्रियजीवितेन तु कृतं


लोचनम्

योजनीयः किं पुनरुक्तेन । सन्नद्धपदेन चात्रासम्भवत्स्वार्थेनोद्यतत्वं लक्षयता वक्रभि- प्रेता निष्करुणकत्वाप्रतिकार्यत्वाप्रेक्षापूर्वकारित्वादयो ध्वन्यन्ते । तथैव मधुरशब्देन सर्वविषयरञ्जकत्वतर्पकत्वादिकं लक्षयता सातिशयाभिलाषविषयत्वं नात्राश्चर्यमिति वऋभिप्रेतं ध्वन्यते । तस्यैवेति । अविवक्षितवाच्यस्य यो द्वितीयो भेदस्तस्येत्यर्थः ।

'प्रत्याख्यानरुषः कृतं समुचितं क्रूरेण ते रक्षसा
सोढं तच्च तथा त्वया कुलजनो धत्ते यथोच्चैः शिरः ।
व्यर्थं सम्प्रति बिभ्रता धनुरिदं त्वद्यापदः साक्षिणा' इति ।

 रक्षःस्वभावादेव यः क्रूरोऽनतिलङ्घयशासनत्वदुर्मदतया च प्रसह्य निराक्रियमाणः कोधान्धः तस्यैतत्तावत्स्वचित्तवृत्तिसमुचितमनुष्टानं यन्मूर्धकर्तनं नाम, मान्योऽपि

बालप्रिया

व्यङ्गयोऽर्थ इति पाठो दृश्यते तत्सत्वे ध्वनितमित्यस्य बोधितमित्यर्थः । असम्भव- त्स्वार्थेनेति । स्वार्थः वर्मितः । 'सन्नद्धो वर्मित' इत्यमरः । ध्वन्यन्त इति । त्वत्पदार्थस्य मेघस्येति शेषः । मधुरशब्देनेति । माधुर्यरसविशिष्टवाचिनेति भावः । सर्वेति । सर्वविषयरक्षकत्वतर्पकत्वादीनाम्मध्ये एकन्धर्ममित्यर्थः । अत्रेति । आकृ- तिष्वित्यर्थः।

 प्रत्याख्यानेति । श्रीरामचन्द्रस्य देवी सीतामुद्दिश्येदं वचनम् । विवृणोति - रक्ष इत्यादि । यः रावणः । प्रत्याख्यानरुडित्यस्य विवरणम्-अनतीत्यादि क्रोधान्ध इत्यन्तम् । अनतिलभ्यं शासनं यस्य तत्वेन या दुर्मदता अहम- नतिलङ्घ्यशासन इति दुरभिमानः तयेति क्रोधान्धत्वे हेतुः । निराक्रियमाणः त्वया निराकृतः । “एतदनुष्ठानं स्वचित्तवृत्ति समुचितमिति सम्बन्धः । एतदित्येतद्विवृणो-


 १. 'कस्सन्नद्धे विरहविधुरा त्वय्युपेक्षेतजायो' इत्यत्रत्यसन्नद्ध पदेनेत्यर्थः ।

 २. 'उद्धतत्वं लक्षयते ति कचित्पाठः, सोऽपि साधीयान् । उद्धतो हि निष्क- रुणः अप्रतीकार्यः अपेक्षापूर्वकारी च भवतीति तद्धर्माणां व्यङ्ग्यतोच्यमाना समी. चीनमुपपद्यते।

 ३. दर्पणतकृस्तु 'सर्वावस्थाविशेषेषु माधुर्य रमणीयता' इति माधुर्यं परिभाष्य 'सरिसिजमनुविद्ध' इत्यादिपद्यमुदाहापुः । एवमेव दशरूपककृतोऽपि 'अनुल्बगत्वं माधुर्य' इति संलक्ष्येदमेव पर्व निदर्शयाम्बभूवुः । तथा चात्रत्यमधुरशब्दस्य रमणी- यताविशेषे परिभाषितत्वात् तद्वाधाभावेन क्य लक्षणा, क्व वा तन्मूला व् पञ्जनेति सुधीभिर्विभाव्यताम् ।