पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९०
सटीकलोचनोपेतध्वन्यालोके


लोचनम्

कारोभेदप्रकटनं करोति। ततश्चेदं कृतमिदं क्रियत इति कर्तृभेदे का सङ्गतिः ? न चैता. वता सकलप्राक्तनग्रन्थसङ्गतिः कृता भवति । अविवक्षितवाच्यादीनामपि प्रकाराणां दर्शितत्वादित्यलं निजपूज्यजनसगोत्रैः साकं विवादेन । चकारः कारिकायां यथा- सङ्ख्यशङ्कानिवृत्त्यर्थः । तेनाविवक्षितवाच्यो द्विप्रभेदोऽपि प्रत्येक पदवाक्यप्रकाश इति द्विधा । तदन्यस्य विवक्षिताभिधेयस्य सम्बन्धी यो भेदः क्रमद्योत्यो नाम स्व. भेदसहितः सोऽपि प्रत्येक द्विधैव । अनुरणनेन रूपं रूपणसादृश्यं यस्य तादृग्व्यङ्ग्यं यत्तस्येत्यर्थः । महर्षरित्यनेन तदनुसन्धत्ते यत्प्रागुक्तम् , अथ च रामायणमहाभारत- प्रभृतिनि लक्ष्ये दृश्यत इति ।

धृतिः क्षमा दया शौचं कारुण्यं वागनिष्ठुरा ।
मित्राणां चानभिद्रोहः सप्तताः समिधः श्रियः ॥

 समिच्छब्दार्थस्यात्र सर्वथा तिरस्कारः, असम्भवात् । समिच्छेन्देन च व्यङ्ग्योऽ- र्थोऽनन्यापेक्षलक्ष्म्युद्दीपनक्षमत्वं सप्तानां वक्रभिप्रेतं ध्वनितम् । यद्यपि–'निःश्वा- सान्ध इवादर्शः' इत्यायुदाहरणादप्ययमर्थो लभ्यते, तथापि प्रसङ्गाद्बहुलक्ष्यव्यापित्वं दर्शयितुमुदाहरणान्तराण्युक्तानि । अत्र च वाच्यस्यात्यन्ततिरस्कारः पूर्वोक्तमनुसृत्य

बालप्रिया

ति हेतौ । स्वरूपमिति । पदादिस्वरूपमित्यर्थः । इति कर्तृभेदे का सङ्गतिरिति । इत्यस्य कर्तृभेदे सति सङ्गतत्वं न सम्भवतीत्यर्थः। 'व्यङ्गयमुखेन प्रदर्शिते पुनर्व्यञ्ज- कमुखेनैतत्प्रकाश्यत' इत्यनेन प्रदर्शनप्रकाशनयोरेककर्तृकत्वं स्वरसतः प्रतीयते, तद. सङ्गतं भवेदिति यावत् । 'का सङ्गतिः एवं प्रष्टव्य' इति सम्बन्धः । दोषान्तरश्चाह- न चेत्यादि । चकार इत्यादि । चकारस्याभावे अविवक्षित वाच्यस्य पदप्रकाशता, तदन्यस्य वाक्यप्रकाशतेति यथासङ्खद्येनार्थभ्रमस्स्यादिति भावः। तेनेति । समुच्चया- 'र्थकचकारेणेत्यर्थः । 'तदन्यस्येति व्यधिकरणविशेषणमित्याशयेन व्याचष्टे-विव. क्षितेत्यादि । 'अनुरणने त्यादेविवरण-क्रमेत्यादि । 'रूपमित्यस्य विवरणम्-रूप- णेति । फलितमाह-सादृश्यमिति । इति यत्प्रागुक्तमिति सम्बन्धः । समिच्छ- ब्दार्थस्य इध्मत्वविशिष्टस्य । समिच्छब्देनेति । उद्दीपकत्वं लक्षयतेति शेषः । समिच्छन्दोऽत्र वाच्यलक्ष्योभयानुगतोद्दीपकत्वप्रकारेण लक्षयति । एवमुद्यतत्वं लक्षय- तेत्यादेरुद्यतत्वााभयानुगतधर्मप्रकारेण लक्षयतेत्यर्थो बोध्यः । 'शब्देन चैत्यनन्तरं


 १ 'अथ च रामायणमहाभारतप्रमृतिनि लक्ष्ये दृश्यत इति यत्प्रागुक्तं, तत् महर्षे- रित्यनेनानुसन्धत्ते' इति योजना।

 २. समिच्छब्दस्योद्दीपनसामर्थ्य लक्ष्यम् , तत्र अनन्यापेक्षत्वं सहकार्यन्तरान- पेक्षत्वं व्यङ्ग्यम् । लक्ष्मीति तु न लक्ष्य घटकम् , श्रीशब्देनैव तदुत्तेरिति ध्येयम् ।