पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८९
तृतीयोद्द्योतः


ञ्जकमुखेनैतत्पकाश्यते-

अविवक्षितवाच्यस्य पदवाक्यप्रकाशता ।
तदन्यस्यानुरणनरूपव्यङ्गयस्य च ध्वनेः ॥१॥

 अविवक्षितवाच्यस्यात्यन्ततिरस्कृतवाच्ये प्रभेदे पदप्रकाशता यथा महर्षेर्व्यासस्य-'सप्तैताः समिधः श्रियः', यथा वा कालिदासस्य-'कः स- न्नद्धे विरहविधुरां त्वय्युपेक्षेत जायाम्', यथा वा-'किमिव हि मधुराणां मण्डनं नाकृतीनाम्', एतेषूदाहरणेषु समिध' इति 'सन्नद्ध' इति 'मधुराणा'मिति च पदानि व्यञ्जकस्वाभिप्रायेणैव कृतानि ।


लोचनम्

पी योऽर्थः स व्यङ्गयमुखप्रेक्षितांशरणतयैव भेदमासादयति। अत एवाह-व्यङ्गयमुखे. नेति । किं च यद्यप्यर्थो व्यञ्जकस्तथापि व्यङ्ग्यतायोग्योऽप्यसौ भवतीति, शब्दस्तु न कदाचिव्द्यङ्गयः अपि तु व्यञ्जक एवेति । तदाह-व्यञ्जकमुखेनेति । न च वाच्य. स्याविवक्षितादिरूपेण यो भेदस्तत्र सर्वथैव व्यञ्जकत्वं नास्तीति पुनःशब्देनाह । व्यञ्जकमुखेनापि भेदः सर्वथैव न न प्रकाशितः किन्तु प्रकाशितोऽप्यधुना पुनः शुद्ध- व्यञ्जकमुखेन । तथाहि व्यङ्ग्यमुखप्रेक्षितया विना पदं वाक्यं वर्णाः पदभागः सङ्घटना महावाक्यमिति स्वरूपत एव व्यञ्जकानां भेदः, न चैषामर्थवत्कदा- चिदपि व्यङ्ग्यता सम्भवतीति व्यङ्गकैकनियतं स्वरूपं यत्तन्मुखेन भेदः प्रकाश्यत इति तात्पर्यम् ।

 यस्तु व्याचष्टे-'व्यङ्गयानां वस्त्वलङ्काररसानां मुखेन' इति, स एवं प्रष्टव्यः- एतत्तावत्रिभेदत्वं न कारिकाकारेण कृतम् । वृत्तिकारेण तु दर्शितम् । न चेदानीं वृत्ति-

'

बालप्रिया

ङ्गयमुखेन प्रदर्शित इत्युक्तेरभिप्रायान्तरञ्चास्तीत्यर्थः । तदाह-यद्यपीत्यादि । अर्थः वाच्यः । व्यङ्गयेत्यादि । कदाचिद्वयङ्गयोऽपि भवतीत्यर्थः । तदाहेति । तद- भिप्रायादाहेत्यर्थः । नन्वेवं पुनर्यञ्जकमुखेनेत्यत्र पुनश्शब्दोऽनुपपन्न इत्यतस्तात्पर्यं विवृणोति-न चेत्यादि । तत्रेति । अविवक्षितत्वादिभेदविशिष्टवाच्य इत्यर्थः । व्य. ञ्जकत्वन्न च नास्तीत्यन्वयः। 'व्यञ्जकमुखत्वमिति पाठे वाच्यस्येत्यादेः वाच्यसम्बन्धि यदविवक्षितादिरूपं अविवक्षितत्वादिकन्तेन हेतुना यो भेदः ध्वनेरवान्तरभेदः । तत्र ध्वनिभेद इत्यर्थः । न च नास्तीत्युक्तमेवार्थ विवृणोति-व्यञ्जकमुखेनापीत्यादि । तथाच व्यञ्जकमुखेनेत्यस्य फलितमर्थमाह-शुद्धत्यादि । केवलव्यञ्जकमुखेनेत्यर्थः । एषामिति । पदादीनामित्यर्थः । सम्भवतीति । सम्भाव्यत इति च पाठः । इती.

      ३७ ध्व०