पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीय उद्द्योतः

एवं व्यङ्ग्यमुखेनैव ध्वनेः प्रदर्शिते सप्रभेदे स्वरूपे पुनर्व्य-


लोचनम्

तृतीय उद्द्योतः

स्मरामि स्मरसंहारलीलापाटवशालिनः ।
प्रसह्य शम्भोदेहार्धै हरन्तीं परमेश्वरीम् ॥

 उद्योतान्तरसङ्गतिं कर्तुमाह वृत्तिकारः-एवमित्यादि । तत्र वाच्यमुखेन ताव- दविवक्षितवाच्यादयो भेदाः, वाच्यश्च यद्यपि व्यञ्जक एव । यथोक्तम्-'यत्रार्थः शब्दो वा' इति । ततश्च व्यञ्जकमुखेनापि भेद उक्तः, तथापि स वाच्योऽर्थो व्यङ्ग्यमुखेनैव भिद्यते । तथा ह्यविवक्षितो वाच्यो व्यङ्ग्येन न्यग्भावितः, विवक्षितान्यपरो वाच्य इति व्यङ्गथार्थप्रवण एवोच्यते इत्येवं मूलभेदयोरेव यथास्वमवान्तरभेदसहितयोर्यञ्जकरू-

बालप्रिया

अथ तृतीयोद्योतटिप्पणी प्रारभ्यते

अथाह प्रौढमुद्योतं तृतीयञ्च यथामति ।
किमपि व्याकरिष्यामि प्रसीदन्त्वत्र मे बुधाः ॥

 स्मरामीति । स्मरस्य कामस्य संहार एव लीला, तत्र यत्पाटवं सामर्थ्यं तच्छालिनः । शम्भोः देहार्धं प्रसह्य हरन्तीमित्यनेन परमेश्वर्याः तथाविधात् परमे- श्वरादप्यतिशयितं पाटवं द्योत्यते ।

 उद्योतेति । अन्य उद्योतः उद्घोतान्तरं तृतीयोद्योतः, तस्य सङ्गात द्वितीयोद्योतेन सह प्रसङ्गरूपां सङ्गतिमित्यर्थः । कर्तुं सम्पादयितुम् । मुखेन प्रदर्शित इत्युक्त्या व्यञ्जकमुखेनाप्रदर्शनं लभ्यते, तदनुपपन्नमित्याश- ङ्कामुद्भाव्य तदुक्तेरभिप्रायं दर्शयन्नवतारयति-तत्रेत्यादि । यद्यपीत्यादौ यो- ज्यम् । तत्र ध्वनौ । वाच्यमुखेनेत्यादि । अविवक्षितत्वादिविशिष्टवाच्यं भेदक- मवलम्ब्यैव ध्वनेरविवक्षितवाच्यत्वादयः प्रभेदास्सम्भवन्तीत्यर्थः । ततः किमत आह-वाच्यश्चेत्यादि । यथोक्तमिति । वाच्यस्य व्यञ्जकत्वमस्तीत्युक्तमित्यर्थः । एतावतापि किमायातमित्यत आह-ततश्चेत्यादि । स इति । व्यञ्जक इत्यर्थः । व्यङ्गयेन न्यग्भावित इति । वाच्यस्याविवक्षितत्वोक्त्या व्यङ्गयेनाप्रधानोकृतत्वं सिद्धयतीति भावः । व्यङ्गयार्थप्रवणः व्यङ्गयपरतन्त्रः । उपसंहरति-इतीत्यादि। मूलभेदयोरिति । अविवक्षितवाच्यविवक्षितान्यपरवाच्ययोरित्यर्थः । व्यङ्ग्यमुख- त्यादि । व्यङ्गयपारतन्त्र्येणैवेत्यर्थः । अत एव उक्ताभिप्रायादेव । किञ्चेति । व्य- व्य-