पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९६
सटीकलोचनोपेतध्वन्यालोके


 अत्र हि वाक्ये विषामृतशब्दाभ्यां दुःखसुखरूपसङ्क्रमितवाच्याभ्यां व्यवहार इत्यर्थान्तरसङ्क्रमितवाच्यस्या व्यञ्जकत्वम् ।

 विवक्षिताभिधेयस्यानुरणनरूपव्यङ्गयस्य शब्दशक्त्युद्भवे प्रभेदे पद प्रकाशता यथा---


लोचनम्

न विवक्षिते । निस्साधनयोस्तयोरभावात् । तदाह-सङ्क्रमितवाच्याभ्यामिति । केषाञ्चिदिति चास्य विशेषे सङ्क्रान्तिः । अतिक्रामतीत्यस्य च क्रियामात्रसङ्क्रान्तिः । काल इत्यस्य च सर्वव्यवहारसङ्क्रान्तिः । उपलक्षणार्थं तु विषामृतग्रहणमात्रसक्रमणं वृत्तिकृता व्याख्यातम् । तदाह-वाक्यइति ।

 एवं कारिकाप्रथमार्धलक्षितांश्चतुरः प्रकारानुदाहृत्य द्वितीयकारिकार्धस्वीकृतान्- षडन्यान् प्रकारान् क्रमेणोदाहरति-विवक्षिताभिधेयस्येत्यादिना । प्रातुमिति पूरयि- तुम् । धनैरिति बहुवचनं यो येनार्थी तस्य तेनेति सूचनार्थम् । अतएवार्थिग्रहणम् । जनस्येति बाहुल्येन हि लोको धनार्थी, न तु गुणैरुपकारार्थी । दैवेनेति । अशक्यपर्यनु-

बालप्रिया

चेति सम्बन्धः । विविक्षिते इत्यपकृष्यते । स्वकर्तव्येति । स्वसाध्येत्यर्थः । स्वपदं साधनपरम् । न च न विवक्षिते विवक्षिते एव । कुत इत्यतत्राह-निस्साधने. त्यादि । तदाहेति । उक्ताभिप्रायेण सुखदुःखरूपसङ्क्रमितवाच्यत्वमाहेत्यर्थः । 'विषं निम्बममृतं कपित्थमित्यादौ निरूढलक्षणया दुःखसाधनं निम्बं सुखसाधनं कपित्थमि- त्येवार्थो विवक्षितः, प्रकृते तु कालः केषाञ्चिद्दुःखमयः केषाञ्चित्सुखमयश्चातिक्रामती. त्यर्थस्य विवक्षिततया विषपदस्य किञ्चित्साधनकदुःखे अमृतपदस्य किञ्चित्साधनक- सुखे च लक्षणा दुःखसुखयोर्विशेषो व्यङ्गयः, साधनत्वेन विषामृतयोर्भानादर्थान्तरस- ङ्क्रमितवाच्यता चेति भावः । केषाञ्चिदिति चास्य विशेषे सक्रान्तिरिति । अज्ञातविशेषधर्मावच्छिन्नवाचकस्य केषामपीति शब्दस्य च दुष्कृतिनामित्यायुक्तार्थविशेषे सक्रान्तिरित्यर्थः । दुष्कृत्यादीनामज्ञातत्वादिकं व्यङ्गयम् । क्रियामात्रे भवत्यर्थे । सर्वव्यवहारेति । व्यवहारगोचरवस्तु जातेत्यर्थः ।

 द्वितीयेति । द्वितीयं यत्कारिकार्धं तत्स्वीकृतांस्तदुक्तानित्यर्थः । 'प्रातुमिति । 'अस्मीत्यव्ययमहमर्थे । धनैरर्थिजनस्य वाञ्छां प्रातुं दैवेन न सृष्टो यदि नामेत्यभ्यु. पगमे । तर्हीति शेषः । जडोऽहं पथि प्रसन्नाम्बुधरस्तटाकः अथवा कूपः किं कस्मात् । न कृतः दैवेन न सृष्टः। तटाकस्य कूपादुत्कृष्टत्वादादावुक्तिः। लोचने-यो येनार्थाति । यो जनो गोसुवर्णादीनाम्मध्ये येन धनेनार्थीत्यर्थः । अत एवेति । उक्ताभिप्रायादेवेत्य- र्थः । भावार्थकथनम्-अशक्येत्यादि । दैवस्यादृश्यत्वादिति भावः । 'अस्मि न सृष्ट!