पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८५
द्वितीयोद्द्योतः


सख्या प्रतिबोध्यते । एतदपेक्षणीयं वाच्यार्थप्रतिपत्तये । प्रतिपन्ने च वाच्येऽर्थे तस्याविनयप्रच्छादनतात्पर्येणाभिघीयमानत्वात्पुनर्व्यङ्ग्याङ्गत्वमे. वेत्यस्मिन्ननुरणनरूपव्यङ्गयध्वनावन्तर्भावः ।

 एवं विवक्षितवाच्यस्य ध्वनेस्तदामासविवेके प्रस्तुते सत्यविवक्षित- वाच्यस्यापि तं कर्तुमाह-

अव्युत्पत्तेरशाक्तेर्वा निबन्धो यः स्खलद्गतेः ।
शब्दस्य स च न ज्ञेयः सूरिभिर्विषयो ध्वनेः ॥ ३२ ॥


लोचनम्

तोक्ता भवेदित्याशङ्कयाह-प्रतिपन्ने चेति । शब्देनोक्त इति यावत् ॥ ३१ ॥

 तदाभासविवेके प्रस्तुत इति सप्तमी हेतौ । तदाभासविवेकप्रस्तावलक्षणात्प्र. सङ्गादिति यावत् । कस्य तदाभास इत्यपेक्षायामाह-विवक्षितवाच्यस्येति । स्पष्टे तु व्याख्याने प्रस्तुत इत्यसङ्गतम् । परिसमाप्तौ हि विवक्षिताभिधेयस्य तदाभासविवे- कः । न त्वधुना प्रस्तुतः । नाप्युत्तरकालमनुबध्नाति । स्खलद्गतेरिति । गौणस्य लाक्षणिकस्य वा शब्दस्येत्यर्थः । अव्युत्पत्तिरनुप्रासादिनिबन्धनतात्पर्यप्रवृत्तिः । यथा-

प्रेङ्खत्प्रेमप्रबन्धप्रचुरपरिचये प्रौढसीमन्तिनीनां
चित्ताकाशावकाशे विहरति सततं यः स सौभाग्यभूमिः ।

 अत्रानुप्रासरसिकतया प्रेङ्खदिति लाक्षणिकः, चित्ताकाश इति गौणः प्रयोगः कविना कृतोऽपि न ध्वन्यमानरूपसुन्दरप्रयोजनांशपर्यवसायी। अशक्तिर्वृत्तपरिपूर-

बालप्रिया

तस्तथा प्रतिपन्ने इत्येतद्व्याचष्टे-शब्देनोक्ते इति । वृत्तौ 'तस्येति । वाच्यार्थस्ये- त्यर्थः । 'अविनयेत्यादि । अविनयस्य चौर्यसुरतस्य प्रच्छादनं बलयशब्दादिना प्रकाशनाभावः । तत्तात्पर्येणेत्यर्थः । 'व्यङ्ग्याङ्गत्वमिति । वलयशब्दं मा कार्षीरित्या- दिव्यङ्गयाङ्गत्वमित्यर्थः ॥ ३१ ॥

 तदाभास इति । तदाभासविवेक इत्यर्थः । स्पष्टे तु व्याख्यान इत्यादि । प्रस्तुते इत्यस्य आरब्धे प्रकृते इति वा व्याख्याने सति तत्पदमसङ्गतं स्यादित्यर्थः । कुत इत्यत्राह-परिसमाप्तौ हीत्यादि । अव्युत्पत्तिपदेन तत्कार्यं विवक्षितमिति दर्शय- ति-अनुप्रासादीति । अनुप्रासादिनिबन्धने यत्तात्पर्यं तेन काव्यप्रवृत्तिरित्यर्थः । प्रेङ्खदिति । प्रेङ्खतश्चञ्चलस्य यथोक्तं "स्त्रीणां प्रेम यदुत्तरोत्तरगुणग्रामस्पृहाचञ्चल- मिति । प्रेम्णः प्रबन्धः प्रकर्षेण बन्धः स्थिरीकरणं तेन सह प्रचुरः परिचयो यस्य तस्मिन् । लाक्षणिक इति । अस्थिर इत्यर्थे इति शेषः । गौण इति । अप्रत्यक्षत्वा- दिना आकाशतुल्ये चित्ते इत्यर्थादिति भावः । अशक्तिपदं व्याचष्टे-वृत्तेत्यादि ।