पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८४
सटीकलोचनोपेतध्वन्यालोके


 अत्र ह्यविनयपतिना सह रममाणा सखी बहिःश्रुतवलयकलकलया


लोचनम्

तथाविधश्च प्रतीयमानस्याङ्गतामेतीति सोऽस्य ध्वनेविषय इत्यनेन व्यङ्ग्यतात्पर्य निब- न्धनं स्फुटं वदता व्यङ्गयगुणीभावे त्वेतद्विपरीतभेव निबन्धनं मन्तव्य मित्युक्तं भवति ।

उच्चिनु पतितं कुसुमं मा धुनीहि शेफालिकां हालिकास्नुषे ।
एष ते विषमविपाकः श्वशुरेण श्रुतो वलयशब्दः ॥ इति च्छाया ।

 यतः श्वशुरः शेफालिकालतिका प्रयत्नै रक्षस्तस्या आकर्षणधूननादिना कुप्य- ति। तेनात्र विषमपरिपाकत्वं मन्तव्यम् । अन्यथा स्वोक्त्यैव व्यङ्गयाक्षेपः स्यात् । अत्र च 'कस्स वा ण होइ रोसो' इत्येतदनुसारेण व्याख्या कर्तव्या । वाच्यार्थस्य प्रतिपत्तये लाभाय एतद्व्यङ्गयायमपेक्षणीयम् । अन्यथावाच्योऽर्थो न लभ्येत । स्वतस्सि- द्धतया अवचनीय एव सोऽर्थः स्यादिति यावत् । नन्वेवं व्यङ्गयस्योपस्कारता प्रत्यु-

बालप्रिया

एवेत्यस्य विवरणम्-स्वात्मेत्यादि । तावन्मात्रेति । वाच्यार्थमात्रेत्यर्थः । प्रती.. यमानाङ्गत्वेनेत्यादेर्विवरणम्-प्रतीयमानस्येत्यादि । स इति । तत्काव्यमित्यर्थः । भावार्थमाह-अनेनेत्यादि ।

 उच्चिन्विति । शेफालिकामिति । "शेफालिका तु सुवहे"त्यमरः । हालिको हलकर्षकः तस्य स्नुषा पुत्रभार्या । धूनननिषेधे हेतुमाह-एष इत्यादि । एषः मया श्रूयमाणः । ते वलयशब्दः । श्वशुरेण श्रुतः सन् विषमविपाकः विषमोऽनिष्टजनको विपाकः परिणामो यस्य सः। भवेदिति शेषः । विषमविपाक इत्यु. क्तेर्वक्ष्यमाणव्यङ्गयाक्षेपकत्वशङ्कां परिहरति-यत इत्यादिना । व्याख्या कर्तव्येति । विषयभेदेन नानाविधं व्यङ्ग्यमवधातव्यमिति भावः । अत्र यत्किञ्चिद्व्यङ्गयस्य वाच्या- ङ्गत्वेऽपि व्यङ्गयान्तरमादाय ध्वनित्वमिति दर्शयति वृत्तौ-'अत्रेत्यादिना । 'अविन- यपतिना' जारेण । 'सखी'ति । नायिकेत्यर्थः । एतदपेक्षणीयं 'वाच्यार्थप्रतिपत्तये' इति ग्रन्थं विवृणोति-वाच्यार्थस्येत्यादि । वाच्यार्थस्य उच्चिन्वित्यादिगाथावाच्या- र्थस्य । लाभायेति । निराकाङ्क्षाकबोधनिष्पत्तये। सफलबोधाय वेत्यर्थः। एतदि- त्यस्य विवरणम्-एतव्द्यङ्गय मिति । सखीकतृकनायिकाप्रतिबोधनरूपं व्यङ्गचमि- त्यर्थः । अपेक्षणीयमिति । सहकारितयाऽपेक्षणीयमित्यर्थः । बोधयितव्यनायिकायाः सखी मां प्रतिबोधयतीति, सहृदानां तु रममाणनायिकायै सखी प्रतिबोधयतीति च ज्ञानं ज्ञायमानं तब्यङ्गचं वा वाच्यार्थलाभं प्रति सहकारीति यावत् । उक्तं व्यवस्था- पयति-अन्यथेत्यादि । अन्यथा व्यङ्ग्यापेक्षाभावे । न लभ्येतेति । कुत इत्यत आह-स्वत इत्यादि । स्वतस्सिद्धतथा नायिकादिभिः स्वतो ज्ञातत्वेन । अवचः नीय एवेति । निष्फलत्वेनेति भावः । सोऽर्थ इति । शेफालिकां मा धुनीरित्याद्यर्थ इत्यर्थः । व्य यस्येति । उक्तव्यङ्गयस्येत्यर्थः । पुनर्वाच्य इति ग्रन्थो यथाव्याख्या-