पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८३
द्वितीयोद्द्योतः


क्ष्यते । यत्र तु प्रकरणादिप्रतिपत्त्या निर्धारितविशेषो वाच्योऽर्थः पुनः प्रतीयमानाङ्गत्वेनैवावभासते सोऽस्यैवानुरणनरूपव्यङ्ग्यस्य ध्वनेर्मार्गः । यथा-

उच्चिणसु पडिअ कुसुमं मा धुण सेहालिअं हलिअसुद्धे ।
अह दे विसमविरावो ससुरेण सुओ वलअसहो ।


लोचनम्

 अत्र दत्तसङ्केतचौर्यकामुकरतसमुचितस्थानप्राप्तिर्ध्वन्यमाना वाच्यमेवोपस्कुरुते । तथा हि गृहकर्मव्यापृताया इत्यन्यपराया अपि, वाध्वा इति सातिशयलज्जापारत- वन्त्र्यबद्धाया अपि, अङ्गानीत्येकमपि न तादृगङ्गं यद्गाम्भीर्योवहित्थवशेन संवरीतुं पारितम् , सीदन्तीत्यास्तां गृह कर्मसम्पादनं स्वात्मानमपि धर्तुं न प्रभवन्तीति । गृहकर्मयोगेन स्फुटं तथा लक्ष्यमाणानीति । अस्मादेव वाच्यात्सातिशयमदनपर- वशताप्रतीतेश्चारुत्वसम्पत्तिः । यत्र त्विति । प्रकरणमादिर्यस्य शब्दान्तरसन्निधान- सामर्थ्यलिङ्गादेस्तदवगमादेव यत्रार्थो निश्चितसमस्तस्वभावः । पुनर्वाच्यः पुनरपि स्व- शब्देनोक्तोऽत एव स्वात्मावगतेः सम्पन्नपूर्वत्वादेव तावन्मात्रपर्यवसायी न भवति

बालप्रिया

अत्रेत्यादि । दत्तेति । दत्तसङ्केतो यश्चौर्यकामुको जारः तस्य रतसमुचितस्थाने वेतस- लतागहने प्राप्तिः । ध्वन्यमानेति । शकुनिकोलाहलोक्त्या व्यज्यमानेत्यर्थः । अन्ये. त्यादि सातिशयेत्यादि च गम्यार्थकथनम् । ताभ्यां सर्वाङ्गसादोत्पत्तेः प्रतिबन्ध कसद्भा- वो दर्शितः । गाम्भीर्येण यदवहित्थमाकारगोपनं तद्वशेन । न प्रभवन्तीति। अङ्गानी- त्यस्यानुषङ्गः गृहकर्मव्यापृताया इत्यनेन गम्यमाह-गृहेत्यादि । तथेति। सादातिश. यवत्त्वेनेत्यर्थः। गृहकर्मयोगे स्फुटं तथा न लक्ष्यमाणानीति सम्बन्धः । अतः कोलाह- लश्रवणमेव सादातिशयजनकमिति भावः । योगे चेति पाठेऽलक्ष्यमाणानीति छेदः । अस्मादेव वाच्यादिति । तथाविधायास्तस्याः कोलाहलश्रवणकाल एव सन्तन्यमा- नताविशिष्टसर्वाङ्गसादरूपवाच्यार्थादेवेत्यर्थः। 'प्रकरणादी'त्यादिपदेन "संयोगो विप्रा योगश्चेत्यादिना अभिधानियामकतया निर्दिष्टानां ग्रह्णमित्याशयेन व्याचष्टे-प्रकरण- मादिर्यस्येति । शब्दान्तरेत्यादि । तद्धटितसमुदायस्येत्यर्थः। तद्वगमादे- वेति । तदज्ञानादेवेत्यर्थः । यत्रेत्यस्य सम्बन्धं दर्शयन्निर्धारितेत्यादिकं व्याचष्टे- यत्रार्थं इत्यादि । निश्चितेति । निश्चयोऽत्र बोधयितव्यजनगतो वाक्यजन्यो ग्राह्यः । वाक्यजन्यबोधं प्रत्येव प्रकरणादिज्ञानस्य हेतुत्वात् , उपलक्षणं चेदमनुमानादि. जन्यनिश्चयस्य । 'उच्चिन्वित्यादौ शेफालिकाधूननं न कर्तव्यं श्वशुरकोपाद्यनिष्ट. जनकत्वादिति वचनादिजन्यो बोधयितव्यनायिकादिगतो निश्चयो प्रायः। समस्तस्व- भाव इति विशेषपदविवरणम् । पुनर्वाच्य इति हेतुगर्भमित्याह-अत एवेत्यादि । अत