पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८२
सटीकलोचनोपेतध्वन्यालोके


केण वि गामतडाए अव्भं उत्ताणअं फलिहम् ॥

 अत्र हि प्रतीयमानस्य मुग्धवध्वा जलघरप्रतिबिम्बदर्शनस्य वाच्या- ङ्गत्वमेव । एवंविधे विषयेऽन्यत्रापि यत्र व्यङ्गयापेक्षया वाच्यस्य चारुत्वो. त्कर्षप्रतीत्या प्राधान्यमवसीयते, तत्र व्यङ्गयस्याङ्गत्वेन प्रतीतेर्ध्नेरविषयत्वम् । यथा-

वाणीरकुडङ्गोड्डीणसउणिकोलाहलं सुणन्तीए ।
घरकम्मवावडाए बहुए सीअन्ति अङ्गाइं ॥

 एवंविधो हि विषयः प्रायेण गुणीभूतव्यङ्गयस्योदाहरणत्वेन निर्दे-


लोचनम्

स्येत्यात्मभूतस्य ध्वनेरसौ काव्यविशेषो न गोचरः ।

कमलाकरा न मलिता हैसा उड्डायिता न च सहसा । न विषय इत्यर्थः ।
केनापि ग्रामतडागेऽभ्रमुत्तानितं क्षिप्तम् ॥ इति च्छाया ।

 अन्ये तु पिउच्छा पितृष्वसः इत्थमामन्त्र्यते । केनापि अतिनिपुणेन । वाच्या- ङ्गत्वमेवेति । वाच्येनैव हि विस्मयविभावरूपेण मुग्धिमातिशयः प्रतीयत इति वा- च्यादेव चारुत्वसम्पत् । वाच्यं तु स्वात्मोपपत्तयेऽर्थान्तरं स्वोपकारवाञ्छया व्यनक्ति ।

वेतसलतागहनोड्डीनशकुनिकोलाहलं शृण्वत्याः।
गृहकर्मव्यापृताया वध्वाः सीदन्त्यङ्गानि ॥ इति च्छाया ।

बालप्रिया

न्वयः। 'अपी'ति समुच्चये। 'स्फुट' इति । अस्फुटभिन्न इत्यर्थः । 'अस्फुट' इति 'यः प्रम्लिष्टत्वेन भासत' इत्यस्य विवरणम् । वाच्यैत्याद्युत्तरार्धस्य विवरणम्-'स्फुटोऽपी'त्या. दि। 'नास्यासावित्यादिचतुर्थपादस्य वृत्तिग्रन्थेनाप्रकाशितमर्थमाह लोचने-अस्येत्यादि । कस्याश्चिन्मुग्धायास्तटाके प्रतिविम्बितमभ्रं दृष्ट्वा विस्मितायाः सखीजनं पितृष्वसारं वा प्रति कमलेत्यादिवचनम् । केनापि ग्रामतटाके अभ्रं मेघमण्डलम् उत्तानितमुत्तानं कृतं सत् अन्यथा यथोपरि तथा जलान्तर्दर्शनं न भवेत् , क्षिप्तं परन्तु । कमलाकराः न मलिनाः सञ्जातमलाः मलिना इति वा छाया । हंसाः सहसा उड्डायिताः उर्ध्वङ्गताः । न च इदमद्भुतमिति भावः । सहसेत्यस्य स्थाने पितृष्वस इति छायां केचित् पठन्ती. त्याह-अन्य इत्यादि। केनापीत्यस्य विवरणम्-अतिनिपुणेनेति । वाच्याङ्गत्वं विवृणोति-वाच्येनैवेत्यादि । स्वात्मोपपत्तये स्वबोधविश्रान्तये । अर्थान्तर- मिति । व्यङ्गयं मुग्धवध्वा जलधरप्रतिबिम्बस्य दर्शनमित्यर्थः । स्वोपकारवाञ्छ- या स्वोपकारं करोतीति वाच्छयेव ।

 वेतसेति। काव्यप्रकाशेऽप्युदाहृतेयं गाथा । गुणीभूतव्यङ्गयत्वमत्र विवृणोति-